________________
६९ माप ॥
३१० भट्टि काव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे तृतीयो वर्गः, यतः तत एव उढरलम् । अनेकाश्चञ्चन्त्यश्चलन्त्यो नखकान्तयो जिह्वा इव यस्य । तं प्रसार्य समिति राक्षससमूहं बभाषे ॥ . ९४५-'शक्तैः सुहृद्भिः परिदृष्ट-कार्यै
राम्नातिभिर् नीतिषु बुद्धि-मद्भिः॥ युष्मद्-विधैः सार्धमुपाय-विद्भिः
सिध्यन्ति कार्याणि सु-मन्त्रितानि. ॥ १४ ॥ शक्तैरित्यादि-शक्तैः समर्थैः सुहृद्भिर्मित्रैः परिदृष्टकायेंः मा भूदृष्टकर्मणां कर्मसु विषाद इति । नीतिषु आम्नातिभिः अभ्यस्तनीतिशास्त्रैरित्यर्थः । १८८८। इष्टादिभ्यश्च ।५।२।४।' इति इनिः 'कस्येन्विषयस्य' इति कर्मणि सप्तमी। बुद्धिमद्भिः ज्ञानवद्भिः । उपायविद्भिः । सामादिकुशलैरित्यर्थः । युष्मद्विधैः सह कार्याणि सुमन्त्रितानि सिध्यन्ति ॥ ९४६-उपेक्षिते वालि-खराऽऽदि-नाशे
दग्धे पुरे, ऽक्षे निहते स-भृत्ये, ॥ सैन्ये द्विषां सागरमुत्तितीर्षा
व-नन्तरं ब्रूत, यदत्र युक्तम्.' ॥ १५ ॥ उपेक्षित इत्यादि-वालिखरादिनाशेषूपेक्षितेषु द्विषां च सैन्ये सागरमुत्ति. तीर्षावुत्तरितुमेषणशीले । अनन्तरमिदानी ब्रूत वदत यदन युक्तमिति । उत्तिती.
विति '३२०। इको ऽचि विभक्तौ ।।१।७३॥' इति नुम् न भवति । '३२१॥ तृतीयादिषु भाषितपुंस्कम्-१७।१।७४।' इति पुंवद्भावः ॥ ९४७-भुजांऽस-वक्षः-स्थल-कार्मुकाऽसीन्
गदाश च शूलानि च यातुधानाः ॥ परामृशन्तः प्रथिताऽभिमानाः
प्रोचुः प्रहस्त-प्रमुखा दशाऽऽस्यम् ॥ १६ ॥ भुजांसेत्यादि-यदि वयं शत्रून न व्यापादयामस्तदा किमेतैर्भुजादिरूद्वै. रिति प्रथिताभिमानाः प्रकाशिताहंकारा भुजादीन् परामृशन्तः प्रहस्तप्रमुखा यातुधाना दशास्सं प्रोचुर्वक्तुमारब्धाः । ११३७॥ वच परिभाषणे' लिट् उस् ॥ ९४८-'अ-खण्ड्य-मानं परिखण्ड्य शक्र
त्वं पण्डित-मन्यमुदीर्ण-दण्डः ॥ नराऽऽभियोगं नृ-भुजां प्रधान! . मन्त्रोन्मुखः किं नयसे गुरुत्वम् ॥ १७ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com