________________
तथा लक्ष्य-रूपे कथानके 'विभीषणागमनों' नाम द्वादशः सर्गः- ३०९
तमः समूहाऽऽकृतिमयशेषा
नूर्जा जयन्तं प्रथित-प्रकाशान्. ॥ १० ॥ प्रीत्येत्यादि-यथा भुजङ्गाधिपः शेषः प्रीत्या स्नेहेन दत्तेक्षणसन्निपातः स. मर्पितनेत्रनिवहो भयमादधाति तद्वद्भयमादधानम् । तमासमूहस्येवाकृतिर्यस्य तमपि प्रथितप्रकाशानशेषानोदीन् उर्जा बलेन जयन्तमैक्षिष्ट । ऊर्जेति ३१. ५७ । भ्राज-भास-३।२।१७७।' इत्यादिना विप् ॥ ९४२-तं रत्न-दायं जित-मृत्यु-लोका
रात्रि-चराः कान्तिभृतो ऽन्वसर्पन् ॥ प्रमुक्त-मुक्ताफलमम्बु-वाहं ।
संजात-तृष्णा इव देव-मुख्याः . ॥ ११ ॥ तमित्यादि-यथा देवमुख्याः अमरत्वाजितमृत्युलोकाः कान्तिभृतो दीप्तिधराः संजाततृष्णाः सन्तः प्रमुक्तमुक्ताफलमम्बुवाहमुपसर्पन्ति तद्वत्तं विभीषणं रखदायं । रनं दास्यतीति । ३१०१। अण् कर्मणि च ।३।३।१२।' इति भविष्य. काले क्रियायां क्रियार्थायामित्यण् तत्र एककर्तृके भिन्मकर्तृके वेति विशेषाभा. वात् । अथवा ५१५। दय दानगत्योः' इत्यस्साकर्मण्यण् । रत्नं दयते ददातीति कृत्वा । रात्रिंचरा भग्नयमलोका अन्वसर्पन ॥ ९४३-स किङ्करैः कल्पितमिङ्गित-ज्ञैः
संबाधकं पूर्व-समागतानाम् ॥ सिंहासनोपाश्रित-चारु-बाहु
रध्यास्त पीठं विहित-प्रणामः ॥ १२॥ स इत्यादि-स विभीषणः विहितप्रणामः कृतप्रणतिः पीठमध्यास्त निषपणवान् किङ्करै त्यैरिणितज्ञैरभिप्रायवेदिभिः कल्पितमुपनीतम् । पूर्वसमागतानां प्रथमप्रविष्टानां संबाधकं संकटकृत् संबाधत इति ण्वुल । रावणस्य सिंहासने उपाश्रितः स्थितः चारुर्बाहुर्यस्य विभीषणस्येति सः ॥ ९४४-ततो दशाऽऽस्यः क्षुभिताऽहि-कल्पं
दीपाऽङ्गुलीयोपलमूढ-रत्नम् ॥ अनेक-चञ्चन्-नख-कान्ति-जिहूं
प्रसार्य पाणिं समिति बभाषे ॥ १३ ॥ तत इत्यादि-विभीषणनिवेशनादुत्तरकालं दशास्यः पाणि क्षुभिताहिकल्पं क्रुद्धविस्तृतफणेन सर्पण तुल्यम् । दीपो दीपनशीलोऽहुलीयोपलोऽङ्गुलीयररं । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com