________________
३०८ भट्टिकाव्ये-तृतीये प्रसन्न काण्डे लक्षण रूपे तृतीयो वर्गः, खविनीतता सुबोधता शब्दानाकुलता चेत्येतदुभयं कथायामेव मननिर्णयाख्यायां द्रष्टव्यम् ॥ ९३८-दौवारिकाऽभ्याहत-शक-दूतं
सोपायनोपस्थित-लोक-पालम् ।। साऽऽशङ्क-भीष्माऽऽप्त-विशन्-निशाटं
द्वारं ययौ रावण-मन्दिरस्य. ॥ ७ ॥ दौवारिकेत्यादि-स विभीषणः रावणमन्दिरस्य द्वारं ययौ । दौवारिकाः द्वारे नियुकाः । १३८६॥ द्वारादीनाम्-१३।' इत्यैच् । तैरभ्याहताः शकदूता यसिन द्वारे । सोपायनाः गृहीतकौशलिकाः उपस्थिता औपढौकिता लोकपाला यत्र । साशङ्काः सभयाः भीष्मा भयानकाः आप्ता विशन्तो निशाटा यत्रेति तमिति ॥
विशेषकम् ८-१०९३९-दूरात् प्रतीहार-नतः स वार्ता
पृच्छन्ननावेदित-संप्रविष्टः ॥ स-गौरवं दत्त-पथो निशाटै
रैक्षिष्ट शैलाऽयमिवेन्द्रशत्रुम् ॥८॥ दूरादित्यादि-स बिभीषणः दूरादेव प्रतीहारेण नतः स्वामिनीव तन्त्र गौरवात् । वार्ता पृच्छन् कुशली महाराज इति विभीषणो द्वारि तिष्ठतीति राजे अनावेदित एव संप्रविष्टो निशाटैः सगौरवं च सविनयं दत्तपथो दत्तमार्गः । इन्द्रशत्रु रावणमैक्षिष्ट दृष्टवान् । शैलाग्रमिव सिंहासनारूढस्य तस्योच्चत्वात् ॥ ९४०-कृशानु-वर्मण्यधिरूढमुच्चैः
सिंहासने संक्षय-मेघ-भीमम् ॥ निसर्ग-तीक्ष्णं नयन-स्फुलिङ्गं
युगान्त-बह्नेरिव धूम-राशिम् ॥ ९ ॥ कृशानुवर्मणीत्यादि-सिंहासने उच्चैस्तुङ्गे कृशानुवर्मणि अग्नितुल्ये अधिरूढं उपविष्टम् । संक्षयमेघवदीमं अतिभयंकरम् । निसर्गतीक्ष्णं खभावरौद्रम् । नयनानि स्फुलिङ्गा इव यस्य तमैक्षिष्ट । युगान्तवहेरिव धूमराशिं अग्मितुल्यसिं. हासने उपरि स्थितत्वात् । सो ऽपि संक्षयमेघवदीमः स्वभावतः कटुकत्वात् । खभावतीक्ष्णः । नयनानि विस्फुलिङ्गा यत्रेति ॥ ९४१-प्रीत्या ऽपि दत्तेक्षण-सन्निपातं
भयं भुजङ्गाऽधिप-वद् दधानम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com