________________
३०६ -भट्टि-काव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे तृतीयो वर्गः,
द्वादशः सर्गःभाविकत्वमलंकारः प्रबन्धविषय उक्तः । नैकदेशिकं तस्य चित्रादयो ऽर्थाः प्रवृत्तिहेतवः । तथा चोक्तम्-'भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ॥ चित्रोदात्तामृतार्थत्वं कथायाः स्वभिनीतता । शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते ॥' इति तत्सर्य मन्त्रनिर्णयप्रबन्धे द्रष्टव्यमिति दर्शयन्नाह९३२-ततो वि-निद्रं कृत-देवताऽचं
दृष्ट्यैव चित्त-प्रशमं किरन्तम् ॥ आविष्कृताऽङ्ग-प्रतिकर्म-रम्यं .
विभीषणं वाचमुवाच माता ॥१॥ तत इत्यादि-ततः प्रभातकालानन्तरं विभीषणं विनिद्रं प्रबुद्धम् । कृतदेवताचं कृतेष्टदेवतापूजनम् । दृष्ट्यैव स्निग्धया कायव्यापारेण चित्तप्रशमं किरन्तं प्रकाशयन्तम् । आविष्कृतं प्रदर्शितं यदङ्गस्य प्रतिकर्म प्रसाधनं तेन रम्यं माता नैकषी नाम वाचं वक्ष्यमाणामुवाच ॥ ९३३-'प्रबाधमानस्य जगन्ति धीमंस्!
त्वं सोदरस्याऽतिमदोद्धतस्य ॥ आनन्दनो नाक-सदां प्रशान्ति
तूर्ण विषस्याऽमृत-वत् कुरुष्व. ॥२॥ प्रवाधमानस्येत्यादि-हे धीमन् ! त्वं नाकसदां देवानां आनन्दनः प्रमो. दयिता सन् सोदरस्य भ्रातुर्दशाननस । गर्भावस्थायां समानमुदरं यस्येति योगवि. भागात्सभावः । अतिबलोद्धतस्य महता सामर्थ्येन दृप्तस्य जगन्ति लोकं प्रबाधमानस्य पीडयतः प्रशान्ति प्रशमनं तूर्ण कुरुष्व । अमृतवत् । यथा अमृतं देवानामानन्दनं विषस्य कालकूटनाम्नः सोदरस्य एकस्मिन् समुद्रोदरे स्थितत्वात् जगन्ति प्रवाधमानस्य प्रशान्ति कृतवदिति ॥ ९३४-कुर्यास् तथा, येन जहाति सीतां
विषाद-नीहार-परीत-मूर्तिम् ॥ स्थितां क्षितौ शान्त-शिखा-प्रतानां
तारामिव त्रास-करी जनस्य. ॥ ३ ॥ कुर्या इत्यादि-तथाप्रकारमनुतिष्ठेस्त्वं येन सीतां जहाति। विषादनीहा. रपरीतमूर्ति विषादो नीहार इव तेन परिगतदेहाम्। क्षितौ स्थितां लिममाम् । शान्तशिखापतानां अनुज्वलवेणीवन्धाम् । जनस्य त्रासकरी भयहेतुभूताम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com