________________
तथा लक्ष्य रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः - ३०५
सतां विघात॒क-रसैर॑विक्षत् सदः परिक्षोभित-भूमि-भागम्. ॥ ४५ ॥
मायाविभिरित्यादि - भाप्तैरव्यभिचारिभिर्मायाविभिर्वञ्चकैः परेषां त्रासकरैः । जनानामतिरौद्रत्वात् । उपादानपरैः सतां सन्मार्गस्थितानां विधातैकरसैविनाशकस्वभावैः उपेतो दशास्यः सदः सभामविक्षत् प्रविष्टः । '२३३६ । शल इगुपधादनिटः सः | ३ | १|४५ | ' कीदृशम् | राक्षसैश्चरणभागेन परिक्षोभितभूमिभागम् ॥
९३० - विधृत - निशित- शस्त्रैस्तद् युतं यातुधानैरुरु-जठर-मुखीभिः संकुलं राक्षसीभिः ॥ श्वगणि-शत-विकीणं वागुरान्वन् मृगीभिर्
वनर्मिव स भयाभिर् देव-बन्दीभिरासीत्. ॥४६॥
विधृतेत्यादि - तत्सदो यातुधानैः विधृतनिशितशस्त्रैः गृहीततीक्ष्णशस्त्रैर्युतं युक्तमासीत् । तथा राक्षसीभिः उरुजठरमुखीभिः संकुलं व्याप्तं यथा वनं वागुरावत् सवागुरं श्वगणि (क) शत विकीर्ण आखेटकशतच्छन्नं मृगीभिः समयाभिः श्वगणि (के) भ्यो जातभयाभिः व्याप्तमासीत् श्वगणा विद्यन्ते येषामिति श्वगणि [ नः ] काः । १९२२ | अतः | ५|२|११५|' इति [ इनि ] ठक् ॥ ९३१ - जलद इव तडित्वान् प्राज्य - रत्न - प्रभाभिः प्रति- ककुभर्मुदस्यन् निस्वनं धीरमन्द्रम् ॥ शिखरमिव सुमेरोरासनं हैममुच्चैर् विविध-मणि-विचित्रं प्रा॒न्नतं सो ऽध्यतिष्ठत् ॥४७॥ इति भट्टिकाव्ये एकादशः सर्गः ॥
जलद इत्यादि - प्राज्यानां प्रभूतानां रत्नानां मणीनां प्रभाभिः तडित्वानिव जलद : प्रोन्नतारमा सर्वेषामुपरि स्थितत्वात् । प्रतिककुभं दिशि दिशि धीरमन्द्रं मन्दगम्भीरं निस्वनं उदस्यन्निक्षिपन् सुमेरोः शिखरमिव हैममासनमुच्चैरुचं विविधमणिविचित्रं नानारूपैर्मणिभिर्विचित्रं नानावर्णकमध्यतिष्ठत् समारोहति स्म ॥
इति श्री - जयमङ्गलाख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येतृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः ), तथा लक्ष्य रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com