________________
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः-३०३
यथास्वं कुलधर्मस्य पुरस्य वा संपद्विभूतिः तस्या भनुकूलान् वेशा पथ्यानि विधाय कृत्वा शतमन्युविद्विषो रावणस्य प्रबोधकाले राजनिकेतनं प्रत्यभिलक्ष्य प्रचक्रमे गन्तुं प्रवृत्तः । ३७१५। प्रोपाभ्यां समर्थाभ्याम् ॥ १॥३॥४२।' इति तङ् ॥ ९२३-शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता
वेगाज जलौघाः पुर-मन्दिरेभ्यः ॥ आपूर्य रथ्याः सरितो जनौघा
राजाऽङ्गनाऽम्भोधिमपूरयन्त. ॥ ३९ ॥ शैलेन्द्रशङ्गेभ्य इत्यादि-यथा जलानां पूराः शैलेन्द्रशृङ्गात् प्रवर्तन्ते तद्वत्पुरमन्दिरेभ्यः प्रवृत्ता जनौघाः रथ्याः सरित इवापूर्व राजाङ्गनमम्भोधिमि. वापूरयन्त पूरितवन्तः ॥ ९२४-प्रबोध-कालात् त्रिदशेन्द्र-शत्रोः
प्रागूर्व-शोषं परिशुष्यमाणाः ॥ हीना महान्तश् च सम-त्वमीयुर्
द्वास्-स्थैरवज्ञा-परुषाऽक्षि-दृष्टाः ॥ ४० ॥ प्रबोधकालादित्यादि-त्रिदशेन्द्रशत्रोः रावणस्य प्रबोधकालाप्राक् पूर्व ऊर्ध्वशोषं परिशुष्यमाणाः राजाङ्गने अवं गता एव प्रबोधकाले शोषं नीयमाना इति अन्तर्भावितण्यर्थो द्रष्टव्यः । एवं च कृत्वा कर्मण्यात्मनेपदम् । अन्ये परिशोष्यमाणा इति णिचं पठन्ति । '३३६५। ऊर्वे शुषि-३।४।४।' इति णमुल । हीनाः महान्तश्च सेवकाः समत्वं तुल्यत्वमीयुः । द्वास्थैदौवारिकैः । द्वारि तिष्ठन्तीति २९१६। सुपि स्थः ।३।२।४।' इति कः । ७६। खरवसानयोर्विसर्जनीयः
३।१५।' इति [विसर्जनीये] १३८॥ विसर्जनीयस्य सः ।।३।३४।' अवज्ञया अनादरेण परुषमस्निग्धं यदक्षि तेनाक्ष्णा दृष्टाः ॥ ९२५-गुरूरु-चञ्चत्-कर-कर्ण-जिह्व
रैवज्ञया ऽग्राऽङ्गुलि-संगृहीतैः॥ रक्षांस्यनायास-हृतैरुपास्थुः
कपोल-लीनाऽलि-कुलैर् गजेन्द्रः. ॥ ४१ ॥ गुरुरुचञ्चदित्यादि-गुरवो ऽलघवः, उरवो महान्तः, चञ्चन्तश्चलन्तः कराः कर्णा जिह्वाश्च येषां गजेन्द्राणां तैः अवज्ञया अपाङ्गुलिसंगृहीतैः पादाङ्गुष्ठा. प्रेण यत्रस्थाने परिगृहीतः । अङ्गुलेरप्रमिति राजदन्तादित्वात् पूर्वनिपातः । अनायासहृतैः शनैः शनैः प्रचोदितैः । मत्तत्वात् कपोल-लीनाऽलि-कुलैः रक्षासि उपास्थुः सेवामकार्षुः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com