________________
२९८ -भट्टि-काव्ये-तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, यस्मिन् तत् । विवस्वानुद्यन् उद्गच्छन् सन्ततरश्मिरज्जुः प्रवितता रश्मयो मयूखा एव रजवो येन सः प्रत्युजहारेव उद्धृतवानिव । तत इत्यन्धकारात् ॥
९०५-पीतोष्ठ-रागाणि हृताऽञ्जनानि
. भास्वन्ति लोलैरलकैर् मुखानि ॥ ... प्रातः कृताऽर्थानि यथा विरेजुस्
तथा न पूर्वेधुरीलंकृतानि. ॥ २१ ॥ पीतौष्ठरागाणीत्यादि-मुखानि वधूनामित्यर्थात् । यथा प्रातः प्रभाते विरेजुः तथा पूर्वेयुः पूर्वस्मिन्नहनि अलंकृतानि न रेजः । तेषामकृतार्थत्वात् । तानि पुनः कृतार्थानि कृतकार्याणि । यतो दयितैः पीतौष्ठरागाणि ओष्ठचुम्बनात् । हृताञ्जनानि चक्षुषोरपि चुम्बनात् अपगतकजलानि लोलैराकुलैरलकैः कचग्रहाकर्षणात् । भास्वन्ति दीप्तिमन्ति ॥ ...९०६-प्रजागराऽऽताम्र-विलोचनाऽन्ता
निरञ्जनाऽलक्तक-पत्र-लेखाः॥ .. तुल्या इवा ऽऽसन् परिखेद-तन्व्यो
वास-च्युताः सेवित-मन्मथाभिः॥ २२ ॥ प्रजागरेत्यादि-भर्तृभिः सहैकत्र यच्छयनं स वासः तसाच्युताः काश्चित् तन्व्यः सेवितमन्मथाभिः अनुष्ठितसुरतामिः तुल्या इवासन् । यतः प्रजागराता. भ्रविलोचनान्ताः दयितागमनप्रतीक्षणात् यः प्रजागरस्तेन ताम्रनेत्रपर्यन्ताः । नायात इति गृहीतप्रसाधनतया निरञ्जनालक्तकपत्रलेखाः यदि वा अन्यत्र शयित इति रोदनात् निरञ्जनाः चित्तोन्माथादितस्ततः पादविक्षेपात विगतालककाः शयने प्रतिक्षणमुद्वर्तनपरिवर्तनात्कपोलादिभ्यो निष्पत्रलेखा इति खे. दाच्च तन्व्यः कृशाङ्ग्यः ॥ ९०७-आबद्ध-नेत्राऽञ्जन-पङ्क-लेशसू
ताम्बूल-रागं बहुलं दधानः॥ चकार कान्तो ऽप्यधरो ऽङ्गनानां
सहोषितानां पतिभिर् लघुत्वम् ॥ २३ ॥ . आबद्धेत्यादि कासांचिदङ्गनानां पतिभिः सहोषितानामप्यधरः लघुत्वं दौर्भाग्यं चकार, सूचितवानित्यर्थः । यतस्ता ईप्सितसुरताप्राल्या रुदितास्ततश्च बद्धो लग्नो नेत्राञ्जनपङ्कलेशो यस्य सोऽधरो दयितैरपीतत्वाच. बहुलं ताम्बूलरागं दधानः कान्तो ऽपि लघुत्वं चकार ॥ .९०८-चसृषि कान्तान्यपि साऽञ्जनानि
ताम्बूल-रक्तं च स-रागोष्ठम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com