________________
तथा लक्ष्य रूपे कथानके 'प्रभातवर्णन' नाम एकादशः सर्गः- २९९
कुर्वन् स-वासं च सु-गन्धि वक्रं
चक्रे जनः केवल-पक्ष-पातम्. ॥ २४ ॥ चझूषीत्यादि-कान्तान्यपि शोभनान्यपि च षि, विकचोत्पलद्युतित्वात् । साञ्जनानि कुर्वन् स्त्रीजनः, प्रातर्गृह्यमाणप्रसाधनत्वात् । सरागं चोष्टं, स्वभावतो बिम्बफलाकारत्वात् । ताम्बूलरक्तं कुर्वन् । स्वभावतश्च सुगन्धि वक्रं मुखं सवासं वासयुक्तं कुर्वन् । केवलपक्षपातं समत्वं चक्रे अञ्जनादीनां निरर्थकत्वात् ॥ ९०९-क्षतैरसंचेतित-दन्त-लब्धैः ।।
संभोग-काले ऽवगतैः प्रभाते ॥ अ-शङ्कता ऽन्योन्य-कृतं व्यलीकं
वियोग-बाह्यो ऽपि जनो ऽतिरागात् ॥ २५ ॥ 'क्षतरित्यादि-अस्या मया दत्तं अस्य च मयेति संभोगकाले रागान्धतया असंकेतितान्यज्ञातानि दन्तेभ्यो लब्धानि यानि क्षतानि । १८०२। चित संचेतने' इति स्वार्थिकण्यन्तस्य रूपम् । प्रभातकाले अवगतैष्टैः वियोगबाह्यो ऽपि सुप्तोऽपि कामिजनः अतिरागात् अतिनेहात् अन्योन्यकृतं अन्योन्येन कृतं व्यलीक अपराध अशङ्कत विकल्पितवान् । लङि रूपम् । किमस्यान्यया हताशया दत्त. मिति योषिदशङ्कत, पुरुषो ऽपि किमन्येन धूर्तेनास्या इति ॥ ९१०-नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः
कर्णाऽन्त-कृष्टैरुरु-केश-शूलाः ॥ स्तनोरु-चक्रास् तत-कर्ण-पाशाः
स्त्री-योध-मुख्या जयिनो विचेरुः ॥ २६ ॥ नेत्रेषुभिरित्यादि-नेत्राणि इषव इव तैः संयुतानि संयुक्तानि पक्ष्माण्येव पत्राणि येषां तैः। कर्णान्तकृष्टैः कर्णान्तविश्रान्तैः उपलक्षिताः स्त्रियो योधमुख्या इव उरुकेशशूलाः उरवो महान्तः केशाः शूला इव येषाम् । स्तनोरुचकाः स्तनाः उरूणि चक्राणीव येषाम् । ततकर्णपाशाः तताः कर्णाः पाशा इव येषां ते जयिनो लब्धविजया विचेरुः भ्रान्ताः ॥ ९११-पयोधरांश चन्दन-पङ्क-दिग्धान्
वासांसि चा ऽमृष्ट-मृजानि दृष्ट्वा ॥ स्त्रीणां स-पन्यो जहषुः प्रभाते
मन्दायमानाऽनुशयैर् मनोभिः ॥ २७ ॥ पयोधरानित्यादि-चन्दनपङ्कदिग्धान् आप्लुतचन्दनस्वात् । वस्त्राणि च अमृष्टमृजाति, अनपनीतशुद्धभावानि स्त्रीणां दृष्ट्वा प्रभाते तरसपत्यो मनोभिः न Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com