________________
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्ग:- २९७
दुःखेन लोकः परवानवा ऽगात्
समुत्सुकः स्वप्न-निकेतनेभ्यः ॥ १७॥ अवीतेत्यादि-अथानन्तरं लोकः परस्परेणान्योन्येन दयितो दयितया दयितापि दयितेन अवीततृष्णः अनपगतसंभोगामिलापः अतएव क्षणादिव द्रुतमिवायातं निशावसानं यस्य । समुत्सुकः उत्कण्ठितः परवानिव पराधीन इव खमनिकेतनेभ्यः वासगृहेभ्यो दुःखेन अगात् निर्गतवान् ॥ ९०२-अर्थोत्थिताऽऽलिङ्गित-सन्निमग्नो
रुद्धः पुनर् यान गमने ऽनभीप्सुः ॥ व्याजेन निर्याय पुनर् निवृत्तस्
त्यक्ताऽन्य-कार्यः स्थित एव कश्चित्. ॥ १८ ॥ अोत्थितेत्यादि-शयनात अर्धमुस्थितं यस्येत्य/त्थितः । आहितान्यादिषु द्रष्टव्यः । शयनस्य वा अर्धादुस्थित इति योज्यम् । स चालिङ्गितो दयितया सनिमनः शयने सुतः। पुननिर्गच्छन् रुद्धो विस्तः। गमने अनभीप्सुरपि निर्याय व्याजेन निमित्तेन पुनर्निवृत्तः । प्रविष्टस्त्यक्तान्यकार्यः स्थित एवं कश्चित्कामी ॥ ९०३-तालेन संपादित-साम्य-शोभं
शुभाऽवधानं स्वर-बद्ध-रागम् ॥ पदैर् गताऽर्थ नृप-मन्दिरेषु
प्रातर् जगुर् मङ्गल-वत् तरुण्यः ॥ १९ ॥ तालेनेत्यादि-नृपमन्दिरेषु रामणादिराजवेश्मसु प्रभातकाले तरुण्यो मङ्गलवत् मङ्गलोपेतं जगुः गायन्ति स । तालेन क्रियाकालमानेन संपादिता साम्य. शोभा यत्र गायनक्रियायां, शुभावधानं शोभनमवधानं चित्तैकाग्रता यत्र, स्वरबद्धरागं षड्जादिभिः स्खरैर्बद्धो ग्रामरागो यत्र, पदैः सुप्तिङन्तर्गतार्थ परिच्छिमार्थ, निरर्थकपदरहितमित्यर्थः । अनेन खरगतं पदगतं लयगतमवधानगतमिति चतुर्विधं गीतमाख्यातम् ॥ ९०४-दुरुत्तरे पङ्क इवा अन्धकारे
मनं जगत् सन्तत-रश्मि-रजुः॥ प्रनष्ट-मूर्ति-प्रविभागमुद्यन्
प्रत्युजहारेव ततो विवस्वान्. ॥ २० ॥ दुरुत्तर इत्यादि-अन्धकारे पङ्क इव दुरुत्तरे दुःखेनोत्तीर्यत इति । मनं प्रविष्टं जगत् । यतः प्रनष्टमूर्तिप्रविभागं प्रनष्टः स्थावरजङ्गममूर्तीनां प्रविभागो Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com