________________
२९६ भट्टिकाव्ये – तृतीये प्रसन्न - काण्डे लक्षण-रूपे द्वितीयो वर्गः, ८९८ - सामोन्मुखेना ऽऽच्छुरिता प्रियेण दत्ते se काचित् पुलकेन भेदे ॥ अन्तः-प्रकोपाऽपगमाद् विलोला वशीकृता केवल - विक्रमेण ॥ १४ ॥
सामोन्मुखेनेत्यादि - अथ काचित्कोपान्मानवती प्रियेण सामोन्मुखेन सामपरेण प्रसादयता आच्छुरिताख्येन नखकर्मणा संस्पृष्टा सती पुलकेन रोमाचेन भेदे उनमे दत्ते सति अथ अन्तः प्रकोपस्यापगमात् विलोला विलोकबुद्धिः केवलविक्रमेण हठाड्रहणेनैव वशीकृता, उपभुक्तेत्यर्थः ॥
८९९ - गुरुर् दधाना परुष- त्वम॑न्या
कान्ता ऽपि कान्तेन्दु-कराऽभिमृष्टा ॥ प्रह्लादिता चन्द्र-शिलैव तूर्णं क्षोभात् स्रवत् - स्वेदजला बभूव ॥ १५ ॥
P
1
गुरुरित्यादि - अन्यापि काचित् स्त्री कान्ता कमनीयरूपा गुरुः धीरा । *५०२। वोतो गुणवचनात् | ४ | ३ | ४४ | ' इति वा ङीप् । न भवति । दधाना पर पत्वं नैर्यम् । कान्तेन भर्त्रा इन्दुनेव कराभिसृष्टा सती प्रह्लादिता सुखिता । क्षोभात् चेतसो विकारात् तूर्णे स्स्रवत्स्वेदजला बभूव । चन्द्रशिलेव चन्द्रमणिरिव । सा गरीयसी कान्ता परुषत्वं काठिन्यं दधाना इन्दुना कराभिमृष्टा प्रह्लादिता सुखितेव क्षोभात्स्वप्रकृतिविकारात् स्रवज्जला भवति ॥
९०० - शशाङ्क- नाथाऽपगमेन धूखां मूर्च्छा - परीतामिव निर्-विवेकाम् ॥ ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः ॥ १६ ॥
शशाङ्केत्यादि - ततो ऽनन्तरं यथा काचित् स्त्री नाथस्य भर्तुरपगमेन वियोगेन धूम्रा मलिना मूर्च्छापरीता निश्चेतना अतएव निर्विवेका विवेक्तुमशक्ता सती सख्या प्रकाशित स्नेहया प्रबोध्यते तद्वद् द्यामाकाशं शशाङ्कनाथस्यापगमेन अस्तगमनेन धूम्रां धूसरतां गतां निर्विवेकां अविद्यमानविशेषां अरुणश्रीः आदित्यलक्ष्मीरिति मधुराभिनवा प्रथितानुरागा प्राबोधयत्प्रकाशितवती ॥
९०१ - अ - वीत- तृष्णो ऽथ परस्परेण क्षणादिवाऽऽयात-निशाऽवसानः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com