________________
तथा लक्ष्य रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः - २९५
किं तत् कथं वैत्युपलब्ध-संज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः ॥ १० ॥
❤
तम इत्यादि - कामुका अपि परतावस्थाया उत्तरकालं उपलब्धसंज्ञा विकल्पयन्ति । तमो नु किमन्धकारं, प्रसुप्तं नु किं प्रकर्षेण सुप्तं, मरणं नु मरणावस्था नु, सुखं नु मूर्च्छा नु, मनोभवस्य वा मायेति किं तद्भवति । कथं वा केन प्रकारेण तत्स्यात् । इत्येवं विकल्पयन्तोऽपि न संप्रतीयुः, न परमार्थ ज्ञातवन्त इत्यर्थः ॥
?
८९५ - वक्षः स्तनाभ्यां, मुखमाननेन गात्राणि गात्रैर् घटयन्नं मन्दम् ॥ स्मरातुरो नैवं तुतोष लोकः, पर्याप्तता प्रेम्ण कुतो विरुद्धा. ॥ ११ ॥
वक्ष इत्यादि - वक्षोमुखगात्राणि स्वानि स्तनादिभिः स्त्रीसंबन्धिभिर्घटयन् संश्लेषयन् अमन्दं दृढम् | १३४ | ङमो ह्रस्वादचि ङमुद्र - १८१३|३२|' स्मरातुरो लोको नैव तुतोष तुष्टिं न जगाम । यतः पर्याप्तता प्रेम्णि कुतो 'विरुद्धा । नैव, तस्याविरुद्धत्वात् ॥
८९६ - स्रस्तऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमाना॒ऽप्यु॑पसंहृता॒ऽक्षी ॥ अनूढमाना शयने नवोढा परोपकारक - रसैव तस्थौ ॥ १२ ॥
स्रस्ताङ्गयष्टिरित्यादि — काचिन्नवोढा परिरभ्यमाणा पत्या आलिङ्ग्य्माना स्वस्ताङ्गयष्टिः न प्रतीपमालिङ्गति । संदृश्यमानापि मुखमुन्नमय्य उपसंहृताक्षी निमीलितलोचना न प्रतीपं पश्यति मानं नैवाचरतीति । अनूढमानापि असंहतमानापि एवंविधापि सती परोपकारैकरसैव तस्थौ । भर्तुरुपकारैकाभिप्रायैव अवस्थिता नात्मोपकाराय ॥
८९७ - आलिङ्गितायाः सहसा त्रपा - वांस् त्रासाऽभिलाषाऽनुगतो रताऽऽदौ ॥ विश्वासिताया रमणेन वध्वा
विमर्द- रम्यो मदनो बभूव ॥ १३ ॥
आलिङ्गिताया इत्यादि -- कस्याश्चिद्वध्वा रतात्प्राक् रमणेन सहसा तत्क्षणं आलिङ्गितायास्त्रपावान्मदनो बभूव । रतादौ स्तारम्भे त्रासाभिलाषाभ्यामनुगतो बभूव । विश्वासितायाः शनैर्विश्वासं कारितायाः विमर्दरम्यो बभूव वासाभावात् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
'
".