________________
२९२ भट्टिकाव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
एकादशः सर्गःमाधुर्यमपि काव्यस्य गुण उक्तः । तथा चोक्तम्-'श्राव्यं नातिसमखाथै काव्ये मधुरमिष्यते' इति । तत्प्रदर्शनार्थ लङ्कागतप्रभातवर्णनमधिकृत्याह८८५-अथा ऽस्तमासेदुषि मन्द-कान्तौ
पुण्य-क्षयेणेव निधौ कलानाम् ॥ समाललम्बे रिपु-मित्र-कल्पैः
पझैः प्रहासः कुमुदैर् विषादः ॥१॥ अथेत्यादि-अथानन्तरं कलानां निधौ चन्द्रमसि अस्तं पर्वतमासेदुषि गतवति । यथा कसिंश्चित् पुण्यक्षयेणावसानमासेदुषि । ३०९७। भाषायां सद-वस -३२२१०८' इति लिटः कसुरादेशः । मन्दकान्तावित्यस्तगमने पूर्वलिङ्गं दर्श. यति । रिपुकल्पैः पझैः प्रहासः विकासः, मित्रकल्पैः कुमुदैर्विषादः संकोचः समाललम्बे समालम्बितः॥ ८८६-दूर समारुह्य दिवः पतन्तं
भृगोरिवेन्दु विहितोपकारम् ॥ बद्धा ऽनुरागो ऽनुपपात तूर्ण
तारा-गणः संभृत-शुभ्र-कीर्तिः ॥२॥ दूरमित्यादि-दूर दिव आकाशस्य भागं समारुह्य पश्चात्तत एवाकाशात् भृगोरिव प्रपातादिव पतन्तमिन्दु तारापतिमनु पश्चात् वारागणः विहितोपकारं तदुदयेन तारागणाप्यायनात् बद्धानुरागः अस्तगमनकाले अनुगतरक्तभावः संभृता विपुलींकृता शुभ्रा निर्मला कीर्तियन स तारागणः पपात । यथा कमिश्वित्स्वामिनि भृगोः पतति पश्चारस्वामिभक्तया भृत्यलोको बद्धानुरागः संभृ. तशुभ्रकीर्तिः पतति तद्वदिति ॥ ८८७-क ते कटाक्षाः, व विलासवन्ति
प्रोक्तानि वा तानि ममैति मत्वा ॥ लङ्काऽङ्गनानामवबोध-काले
तुलामनारुह्य गतो ऽस्तमिन्दुः. ॥ ३ ॥ कत इत्यादि-ये कटाक्षाः सविलासास्तिर्यग्दृष्टयः, यानि च प्रोकानि जल्पितानि विलासवन्ति, तदुभयं न मम विद्यते । लङ्काङ्गनानां तु मुखेन्दवः सकटाक्षाः सविलासाः सजल्पिताश्च । अतो यावन्न विबुध्यन्ते तावदपक्रमणं युक्तमिति मत्वा निरूप्य तुलामनारा समानतामलब्ध्वा निःसंशयो वा भूत्वा । तत्प्रबोधकाले । लकाङ्गनानामेव । गतो ऽस्तमिन्दुः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com