________________
तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं नाम एकादशः सर्ग:- २९३ ८८८-मानेन तल्पेष्व-यथा-मुखीना
मिथ्या-प्रसुप्तैर् गमित-त्रियामाः॥ स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर्
दृष्टे ऽपि दोषे पतयो ऽनुनीताः ॥४॥ मानेनेत्यादि-पतयस्तल्पेषु शयनीयेषु मानेनायथामुखीनाः परावृत्त. मुखाः । १८०७। यथामुखसंमुखस्य दर्शनः खः ।५।२।६।' परावृत्तत्वात् प्रतिबिम्बाश्रयवत्तेषु योषितां प्रतिबिम्बमिव मनो न प्रसादीभवतीत्येवं मिथ्याप्रसुप्तरलीकनिद्राभिः गमितत्रियामाः प्रेरितप्रथमादिप्रहराः। दृष्टे ऽपि दोषे गोत्रस्ख. लीतादौ । पतयः स्त्रीभिरनुनीता यतो निशातिकमात्पर्यवसानात् विकृवा विह्वलास्ताः ॥ ८८९-ईर्ष्या-विरुग्णाः स्थिर-बद्ध-मूला
निरस्त-निःशेष-शुभ-प्रतानाः॥ आप्यायिता नेत्र-जल-प्रसेकैः
प्रेम-द्रुमाः संरुरुहुः प्रियाणाम् ॥ ५ ॥ ईर्ष्याविरुग्णा इत्यादि-प्रियाणां प्रेमद्रुमाः प्रेमाणि द्रुमा इव । स्थिर निश्चलं बद्धमूलं उत्पत्तिकारणं येषां ते ईर्ष्याविरुग्णा अत एव निरस्ताः निःशेषाः शुभा एव हसितजल्पितादयः प्रतानाः शाखा येषां ते । प्रसादनानन्तरं नेत्रज. लप्रसेकैराप्यायिताः संरुरुहुः पुनर्नवीभूताः स्थिरबद्धमूलत्वात् ॥ ८९०-ततः समाशङ्कित-विप्रयोगः
पुनर्-नवीभूत-रसो ऽवितृष्णः ॥ स्मरस्य सन्तं पुनरुत-भावं
ना ऽऽवर्तमानस्य विवेद लोकः ॥ ६ ॥ तत इत्यादि-प्रेमद्रुमरोहणानन्तरं लोकः समाशक्षितविप्रयोगो विप्रयोगो. ऽस्माकमासनवर्तीति पुनर्नवीभूतरसः अभिनवीभूतसुरतेच्छः सरस्य कामस्थ आवर्तमानस्य पुनःपुनः प्रवर्तनात् । भवितृष्णः सामिलापः सन्तमपि विद्यमा. नमपि पुनरुक्तभावं पौनःपुन्यं न विवेद । भाशक्षितविप्रयोगवादपूर्वमिव ज्ञातवानित्यर्थः ॥ ८९१-वृत्तौ प्रकाशं हृदये कृतायां
सुखेन सर्वेन्द्रिय-संभवेन ॥ संकोचमैवा ऽसहमानमस्था
द-शक्त-वद् वञ्चित-मानि चक्षुः ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com