________________
तथा लक्ष्य-रूपे कथानके 'सीताऽभिज्ञानदर्शनं' नाम दशमः सर्गः - २९१
निपुणम् -
१ ८८३ - बोद्धव्यं किमिव हि यत् त्वया न बुद्धं, किं वा ते निमिषितर्मध्य-बुद्धि- पूर्वम्, ॥ लब्धऽऽत्मा तव सु॒कृतैर॑निष्ट- शङ्की स्नेह घो घटयति मां तथापि वक्तुम्. ॥ ७४ ॥
बोद्धव्यमित्यादि - किमिव तद्बोद्धव्यं ज्ञातव्यमस्ति नैवेत्यर्थः । यश्वया न बुद्धं बुद्ध्या विज्ञेयं तव किंचिचेष्टितमपि नोपेक्षापूर्वकं यतो निमिषितमप्यक्ष्णोनिमीलनमपि भबुद्धिपूर्वकं नैवेत्यर्थः । यद्येवं किमित्यस्मानुपदिशसीत्याहलब्धात्मेति । तथापि सुकृतैर्लब्धात्मा लब्धजन्मा स्नेहौघः स्नेहसमूहः । अनिष्टशङ्की अनिष्टशङ्कनशीलः । मां वक्तुं वदेति घटयति । निपुणमिति अर्थावगा - ढत्वादस्य चोदात्तेऽन्तर्भावो द्रष्टव्यः । भाविकत्वमित्यलंकार उक्तः । तद्बन्धवि. षयत्वात्पृथक् प्रदर्शयिष्यति ॥
८८४ - सौमित्रेरिति वचनं निशम्य रामो
·
-
जृम्भान्वान् भुज-युगलं विभज्य निद्रान् ॥ अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमादिशन् प्लवङ्गान् ॥ ७५ ॥ इति भट्टिकाव्ये दशमः सर्गः ॥ सौमित्रेरित्यादि — इत्येवं सौमित्रेः लक्ष्मणस्य वचनं निशम्य श्रुखा रामो जृम्भावान् जातजृम्भिकः जृम्भणं जृम्भा । ' ३२८० । गुरोश्च हलः | ३ | ३|१०३।' इत्यकारः । टाप् । निद्वान् निद्रां गच्छन् । '११२८ | द्रा कुत्सायां [गतौ।' इत्यस्मादादादिकस्य निपूर्वस्य शतरि रूपम् । शिशविषया शयितुमिच्छया । भुजयुगलं विभज्य एकं शिरःस्थाने न्यस्य द्वितीयं शरीरस्योपरि प्रसार्येत्यर्थः । विभुज्येति पाठान्तरम् । तत्र क्रोडभागे वक्रीकृत्येर्थः । प्रवालतल्पं पल्लवशयनीये अध्यष्ठात् अधिष्ठितवान् । '२२२३ । गाति-स्था - | २|४|७७१' इति सिचो लुक् । '२२७६। प्राक् सितात् - १८१३६३|' इत्यादिना षत्वम् । समुद्रदिदृक्षया नियमपूर्वं सुष्वापेत्यर्थः । रक्षायै रक्षानिमित्तं लवङ्गानादिशन् नियोजयन् । प्रतिदिशं दिशि । '६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः | ५|४|१०७ | इति टच् । तत्र दिक्शब्दस्य पठितत्वात् ॥
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री- भट्टिकाव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्यरूपे कथानके 'सीताऽभिज्ञानदर्शनं' नाम दशमः सर्गः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com