SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ १९९ भट्टिकाव्ये तृतीये प्रसन्न काण्डै लक्षणे-रूपें प्रथमो वर्गः, ...: रघु-सुतमनुजो जगाद वाचं , - स-जल-घन-स्तनयित्नु-तुल्य-घोषः-॥ ७१ ॥ __ अथेत्यादि-अथ चन्द्रदर्शनानन्तरं रघुसुतं राममभिरामः कामाभिभूतस्वादाभिमुख्येन रम्यत इति । अनुजः कनीयान् भ्राता वाचं वक्ष्यमाणां जगाद गदितवान् । नयनमनोहरः प्रेक्षणीय इत्यर्थः । अत्र नयने मनश्चावर्जयन् नयनमनोहर इति तुल्ययोगिता । न्यूनस्य लक्ष्मणस्याधिकेन सहाभिरमणीयगुणसाम्य. विवक्षया अभिरमणतुल्यक्रियायोगात् । सर इव चित्तभवोऽपि तस्य चेतसि सदा भवतीति लिष्टम् । तथाप्यवामशीलो प्रतिकूल इति विरोधः । स्मरस्तु वामशीलः ) सजलधनस्तनयिनुना शब्देन तुल्यो घोषो यस्य । संसृष्टिरिति बह्वलंकारयोगात् । तथा चोक्तम्-'परामिभूता संसृष्टिर्बह्वलंकारयोगतः ॥ रचिता रत्नमालेव सा चैवं कथ्यते यथा ॥' इति ॥ आशी:--८८१-'पति-वध-परिलुप्त-लोल-केशीर् नयन-जलाऽपहताऽञ्जनौष्ठ-रागाः ॥ कुरु रिपु-वनिता, जहीहि शोकं, व च शरणं जगतां भवान् , क मोहः ॥ ७२ ॥ पतीत्यादि-पतिवधेन परिलुप्ता भ्रष्टा लोलाः केशा यासां रिपुवनितानाम् । नयनजलेनाभ्रुणा अपहृतमञ्जनमोष्ठरागश्च यासां ताः मन्दोदरीप्रभृतीः कुरु । शोकं जहीहीत्याशंसे । किं । क भवान् जगतां शरणमाश्रयः क्व च मोह इति । आशीरिति इष्टस्याशंसनात् । तथा चोक्तम्-'आशीरिति च केषांचिदलंकारतया मता ॥ सौहृदस्याविरोधोक्तौ प्रयोगो ऽस्याश्च तद्यथा ॥' इति ॥ हेतुः८८२-अधिगत-महिमा मनुष्य-लोके वत सुतरामवसीदति प्रमादी, ॥ गज-पतिरुरु-शैल-शृङ्ग- वर्मा गुरुरवमज्जति पङ्क-भा, न दारु.॥ ७३ ॥ अधिगतमहिमेत्यांदि-मनुष्यलोके यो ऽधिगतमहिमा प्राप्ताधिपत्यः सप्र. मादी शोकादिषु प्रमादवान् बत कष्टमवसीदति न कार्यसमर्थो भवति । कुत एतदित्याह-गजपतिः उरुशैलशृङ्गवा महाशैलशृङ्गप्रमाणं वर्म वपुर्यस्य सः। पङ्कभाक् पकं भजतीति । २९७६। भजो ण्विः ।३।२।६२।' पङ्कमवतीर्णः सन् अवमजति अवसीदति । यस्मादसौ गुरुः, न पुनरु काठं तस्मान्मुन्च शोकम् । हेवुरिति गजपतेर्हेतुद्वारेण निर्देशात् अयमर्थान्तरो द्रष्टव्यः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy