________________
तथा लक्ष्य-रूपे कथानकै 'सीताऽभिज्ञानदर्शन' नाम दशमः सर्ग:-२८९ धानात् न निश्चिकाय चन्द्रमिति स्तुत्यर्थे सन्देहवचोऽमिधानाच्च । तथा चो. कम्-'उपमानोपमेयस्य तत्वं च वदतः पुनः ॥ ससन्देहवचः स्तुत्यै ससन्देहं विदुर्यथा ॥ इति ॥
अनन्वय:८७८-कुमुद-वन-चयेषु कीर्ण-रश्मिः
क्षत-तिमिरेषु च दिग्-वधू-मुखेषु ॥ वियति च विललास तदू-वदिन्दुर्,
विलसति चन्द्रमसो न यद्-वदन्यः ॥ ६९॥ कुमुदवनचयेग्वित्यादि-कुमुदवनानां चयेषु समूहेषु, दिग्वधूमुखेषु, वियति च, क्षततिमिरेषु खण्डिततमःसु यतस्तेषु विकीर्णरश्मिः क्षिप्तमयूखः विललास तद्वदिन्दुः शोभते स्म । चन्द्रमसः सकाशात् अन्यो यद्वयथा न विकसति तथा विललास । इदमुक्तं भवति । इन्दुर्विललास चन्द्र इवेति । अनन्वय इति सत्सदृशस्य साम्यस्याविवक्षातश्चन्द्रस्योपमानोपमेयत्वात् । तथा चोक्ता म्-'यत्र तेनैव तस्य स्यादुपमानोपमेयता ॥ सादृश्यस्याविवक्षातस्त्रमित्याहुरनन्वयम् ॥' इति ।
उत्प्रेक्षाऽऽवयवः८७९-शरणमिव गतं तमो निकुञ्ज
विटपि-निराकृत-चन्द्र-रश्म्यरातौ ॥ पृथु-विषम-शिलाऽन्तराल-संस्थं
स-जल-घन-द्युति भीत-वत् ससाद. ॥ ७० ॥ शरणमित्यादि-पृथुविषमशिलानां यान्यन्तरालानि तेषु संस्थं संतिष्ठमानं सत्तमः निकुळे गहने विटपिमिनिराकृताश्चन्द्रस्य रश्मय एवारातयो यस्मानिकुञात् तस्मिन् ससाद विलीनं शरणमिव । यथा कश्चित् भीतो दुर्गे निली. यते । सजलस्य धनस्येव धुतिर्यस्य तमसः । उत्प्रेक्षावयव इति । भीतवत्स. सादेति उपमाश्लेषलक्षणस्य श्लिष्टस्यार्थेन योगात् शरणमिव गतमित्युत्प्रेक्षायो. गात्, 'विटपिनिराकृतचन्द्ररश्म्यरातौ' इति रूपकार्थेन योगात् । तथा चोक्तम्-श्लिष्टस्यार्थेन संयुक्तः किंचिच्चोत्प्रेक्षयान्वितः ॥ रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥' इति ॥ 'विटपितिरस्कृतचन्द्ररश्मियोगः' इति पाठान्तरं तन्त्र रूपकार्थों नास्तीति असंपूर्णलक्षणता ॥
संसृष्टिः८८०-अथ नयन-मनोहरो ऽभिरामः
स्मर इव चित्त-भवो ऽप्य-वाम-शीलः॥
भ० का० २५ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com