________________
२८८ भट्टि-काव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे प्रथमो वर्गः,
अपहरदित्यादि-ततस्तॄत्तरकालं दिवसे ये बिनोदाः चेतसः संस्थापकाः तान् सर्वतः सर्वान् सर्वेण वा प्रकारेण । माद्यादित्वात्तसिः। अपहरदिव अपनयदिवान्धकारं दयितगतं प्रियागतं च । समाधि चित्तैकाग्रतां एकधा एकप्रकारं दधत् धारयत्। घनरुचि बहुलच्छायं ववृधे वर्धते स । सह रघुनन्दनमन्मथोदयेन तदानीं तस्य कामोदयोऽपि ववृधे । सहोक्तिरिति अन्धकारवन्मन्मथाश्रितयोर्वर्धन क्रिययोस्तुल्यकालयोः ववृध इत्यनेन पदेन कथनात् । तथा चोकम्-'तुल्यकालक्रिये यत्र वस्तुद्वयसमाश्रिते ॥ वाक्येनकेन कथ्यते सहोक्तिः सा मता यथा ॥' इति ॥
परिवृत्तिः८७६-अधि-जलधि तमः क्षिपन् हिमांशुः
परिददृशे ऽथ दृशां कृताऽवकाशः ॥ विदधदिव जगत् पुनः प्रलीनम्.
भवति महान् हि पराऽर्थ एव सर्वः ॥६७॥ अधिजलधीत्यादि-अथ हिमांशुरन्धकारवर्धनानन्तरम् । अधिजलधि जलधेपरि । विभक्त्यर्थे ऽव्ययीभावः । तमः क्षिपन अपनयन् । परिददृशे दृष्टः । दृशां चक्षुषां कृतावकाशः दत्तावसरः । जगल्लोकं प्रलीनं तिरोभूतं पुनर्विदधदिव सजत्रिव । कमात्तेनैवं कृतमित्याह-यमाद्यो महान् स सर्वः परार्थ एव परप्र. योजन एव भवति । परिवृत्तिरिति दृशां कृतावकाश इत्यनेन विशिष्टस्य वस्तुन आदानात् । तमः क्षिपन्नित्यनेनास्य वस्तुनः अपोहात्, भवतीत्यादिना अर्थान्तरन्यासात् । तथा चोक्तम्-'विशिष्टस्य यदादानमन्यापोहेन वस्तुनः । अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥' इति ॥
स-सन्देहः८७७-अशनियमसौ, कुतो निरभ्रे.
शित-शर-वर्षम-सत् तदप्य-शार्ङ्गम् ॥ इति मदन-वशो मुहुः शशाऽङ्के
रघु-तनयो, न च निश्चिकाय चन्द्रम् ॥६८॥ अशनिरित्यादि-असौ यश्चन्द्रः किमयमशनिवजं, असौ कुतो निरभ्र नभसि कुतः, यतोऽसौ मेघादुत्पद्यत इति । उत निशितानां शराणां वर्ष तदप्यशाङ्गमविद्यमानधनुः असदविद्यमानमित्ययं मदनवशः कामाभिभूतो मुहुः क्षणं शशाङ्के शशाङ्कविषये रघुतनयो ऽभूदित्यर्थात् द्रष्टव्यम् । न च चन्द्रं निश्चिकाय निश्चि. नोति स । '२५२५। विभाषा चेः १७।३।५८।' इति कुत्वम् । ससन्देह इति । अशनिशरवर्षाभ्यां उपमेयस्य चन्द्रस्य तत्वं अशनिशरवर्षमिति प्रयो. कुरभिधानात् । कुतो निरभ्रे तदप्यशार्ङ्गमिति पुनरुपमानोपमेययोर्भेदाभि
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com