________________
तथा लक्ष्य - रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २८७
समुद्रोपकण्ठे रामस्य मदनावस्थामाह
विरोधः
८७३ - मृदुभिरपि विभेद पुष्प बाणैश् चलशिशिरैरपि मारुतैर् ददाह ॥ रघुतनयमनर्थ - पण्डितो सौ, न च मदनः क्षतर्माततान, ना ऽर्चिः ॥ ६४ ॥
C
मृदुभिरित्यादि - मदनो ऽनर्थपण्डितः निष्प्रयोजनकुशलः पुष्पबाणैरपि मृदुभिः रघुतनयं बिभेद । न चासौ क्षतं खण्डनमाततान जनितवान् । जलशिशिरैर्मारुतैस्तमेव रघुतनयं ददाह न चासावर्चिज्र्ज्यालामाततान । विरोध इति पुष्पबाणानां यन्मार्दवं मरुतां च जलसंसर्गाद्यच्छेत्थं तयोर्भेददाहलक्षणे क्रिये विरुद्धे तयोरभिधानात् । तयोश्च क्रिययोर्वा विरोधिनी क्रिया क्षतार्चिषोरवतानलक्षणा तस्याः कामोद्रेकप्रतिपादनाभिधानात् । तथा चोक्तम्- 'गुणस्य च क्रियाया वा विरुद्धान्यक्रियाभिधा । या विशेषाभिधानाय विरोधं तं विदुर्यथा ॥' इति ॥ उपमेयोपमा —
८७४ - अथ मृदु- मलिन प्रभौ दिनाऽन्ते जलधि- समीप - गताव॑तीत - लोकौ ॥ अनुकृतिर्मितरेतरस्य मूर्त्योर्
दिन-कर- राघव - नन्दनार्वकाम् ॥ ६५ ॥
अथेत्यादि — अथ यथोक्तवस्त्वनन्तरं मृदुमलिनप्रभौ मृदुरप्रचण्डा मलिना प्रभा ययोः तौ दिनकरराघवनन्दनौ । रघोरपत्यं राघवः दशरथस्तन्नन्दनो रामः दिनान्ते अन्योन्यस्य दिवाकरो रामस्य रामो ऽपि दिवाकरस्येति मूर्योदयोरनुकृतिमिवानुकारमिव यथोक्तधर्मतुल्यतया अकाष्ट कृतवन्तौ । अतीतलोकौ त्यक्तलोकौ । उपमेयोपमेति । तयोः पर्यायेण उपमानोपमेयत्वात् । तथा चोक्तम्'उपमानोपमेयत्वं यन्त्र पर्यायतो भवेत् ॥ उपमेयोपमां धीरा बुवते तां यथोदिताम् ॥' इति ॥
सहोक्ति:
८७५ - अपहरदिव सर्वतो विनोदान् दयित - गतं दधदेकधा समाधिम् ॥ घन - रुचि ववृधे ततो ऽन्धकारं सह रघु-नन्दन-मन्मथोदयेन ॥ ६६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com