________________
२८६ भट्टिकाव्ये-तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, मारूपकमिति । तथोक्तम्-'उपमानस्य तनावमुपमेयस्य रूपयन् ॥ यो वदत्युपमाभेदमुपमारूपकं यथा ॥' इति ॥
___ तुल्ययोगिता८७१-अ-परिमित-महाऽद्भुतैर् विचित्रश्
च्युत-मलिनः शुचिभिर महान-लक्ष्यैः॥ तरु-मृग-पति-लक्ष्मण-क्षितीन्द्रः
समधिगतो जलधिः परं बभासे. ॥ ६२ ॥ अपरिमितमहाद्धरित्यादि-तरुमृगपतिलक्ष्मणक्षितीन्द्रैः सुग्रीवलक्ष्म. णरामैः समधिगतः प्राप्तो जलधिः परं सुष्छु बभासे शोभते स । कीदृशैः कीदृश इत्याह-अपरिमितमहाद्भुतैर्विचित्रः नानाद्भुतः । शुचिमिर्विमलैः च्युतमलिनो निर्मलो ऽलङ्घयैरनभिभवनीयैः महान् अनभिभवनीयः । एवं च कृत्वा तेनापि ते समधिगताः परं बभासिर इति । तुल्ययोगितेति न्यूनानामपि तेषां सुग्रीवादीनां विशिष्टेन जलनिधिना महाद्भुतत्वादिगुणसाम्यविवक्षया तुल्यस्य कायस्य भासनलक्षणस्यानुष्ठानेन तुल्ययोगात् । तथा चोकम्-'न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ॥ तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता॥' इति ॥
निदर्शनम्८७२-न भवति महिमा विना विपत्ते
रवगमयन्निव पश्यतः पयोधिः ॥ अ-विरतमभवत् क्षणे क्षणे ऽसौ
शिखरि-पृथु-प्रथित-प्रशान्त-वीचिः ॥ ६३ ॥ न भवतीत्यादि-महिमा महत्वं, विना विपत्तेः विनाशं विना न भवति '६०३। पृथग्विना-१२।३।३२।' इत्यादिना पञ्चमी । नास्त्येव तन्महत्त्वं यस्य विनाशो नास्तीत्येवमवगमयन् बोधयन्निव पयोधिस्तान् पश्यतो रामादीन् अवि. रतमविच्छेदेन शिखरिवत् पृथवः प्रथिताः प्रशान्ताश्च वीचयो यस्य स एवं क्षणे क्षणे अभवत् भूतवान् । निदर्शनेति प्रतिक्षणं वीचीनां पृथुत्वप्रशान्तस्वभवनक्रिययैव महिमभवनस्य तदर्थस्य विपत्तिफलस्य उपादानात् । न यथेववतिशब्दा. नां प्रयोगात् । तथा चोक्तम्-'क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनात् ॥ इष्टा निदर्शना नाम यथेववतिभिर्विना ॥' इति ॥
१-तरुमृगाः शाखामृगाः कपयस्तेषां पतिरिति विग्रहः । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com