________________
तथा लक्ष्य रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २८५
मथितम॑पि सुरैर् दिवं जलैौधैः समभिभवन्तर्म-विक्षत-प्रभावम् ॥ ५९ ॥
शशिरहितमित्यादि -- शशिरहितमपि मुग्धचन्द्ररहितमपि प्रभूतकान्ति पद्मरागादिरत्नावभासितत्वात् । विबुधहृतश्रियमपि अनष्टशोभं सर्वदा शोभास्पदत्वात् । सुरैर्मथितमपि दिवमाकाशं जलौघैः समभिभवन्तं अत्युच्छ्रितत्वात् तदेवमविक्षतप्रभावं अखण्डितामिमानमीयुः ज्ञातवत्यः । विशेषोक्तेरिति शश्यादेरेकदेशस्य विगमे ऽपि प्रसूतकान्त्या गुणान्तरेण स्तुतिविशेषस्य प्रतिपादनात् । यथोक्तम्- 'एकदेशस्य विगमे या गुणान्तरसंस्तुतिः ॥ विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ॥' इति ॥
व्याज- स्तुति:
८६९ - क्षिति-कुल- गिरि-शेष- दिग्-गजेन्द्रान् सलिल - गतामिव नावर्मुद्वहन्तम् ॥ धृत-विधुर-धरं महावराहं गिरि-गुरु-पोत्रमपीहितैर् जयन्तम् ॥ ६० ॥
"
क्षितीत्यादि - क्षितिं पृथिवीं, कुलगिरीन् कुलपर्वतान् शेषं नागराजं, दिग्गजेन्द्रानैरावतादीन् । सलिलगतामिव नावमुद्वहन्तं जलनिधिं महावराहं धृतविधुरधरं धृता उद्धृता विधुरा विह्नला धरा मही येनेति । गिरिगुरुपोत्रं गिरिवत् गुरु पोत्रं यस्य तमपी हितैश्चेष्टितैर्जयन्तं जलनिधिमीयुः । व्याजस्तुतिरिति क्षित्यादिधारणादधिकगुणस्य जलनिधेस्तोत्र व्यपदेशेन वराहेण तुल्यत्वात् । तमपि महावराहं जयन्तमिति किंचिद्विधातुमिच्छया निन्दनात् । तथा चोक्तम्'दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यता ॥ किंचिद्विधित्सया निन्दा व्याजस्तुतिरसौ यथा ॥' इति ॥
—
उपमा-रूपकम् – ८७० - गिरि - परिगत- चञ्चलाऽऽपगा॒ऽन्तं जल - निवहं दधतं मनोऽभिरामम् ॥ गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन- शुक्ल-चीन-पट्टम् ॥ ६१ ॥
गिरीत्यादि - गिरिभिः परिगताः संसृष्टाः चञ्चला विलोला आपगान्ता नद्यन्ता यस्मिन् जलनिवहे, तं जलनिवहं दधतं धारयन्तं समुद्रमीयुः । कीदृशमिव जलनिवहम् । रामं भर्तारं विलोक्य हृष्टाय इत्यर्थप्राप्तम् । ततश्च पूर्वकाले क्त्वा । भुवः पृथिव्या इव धरणिधरस्तनयोः शुक्लचीनपट्टमिव गलितम् । उप
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com