________________
२८४ भट्टिकाव्ये – तृतीये प्रसन्न -काण्डे लक्षण रूपे प्रथमो वर्गः,
-
प्रददृशुरित्यादि - महातरङ्गान् जलमुच हव मेघानिव प्रददृशुः प्रदृष्टवत्यः । उरवो महान्तो मुक्ताः प्रकीर्णाः शीकरौधा येषु । विमलमणिद्युतय एव सन्ततानि इन्द्रचापानि येषु । धीरमन्द्रघोषान् मधुरगम्भीरध्वमीन् । क्षितिप रितापहृतः पृथिवी संतापहारिणः । इदमपि यथानिर्दिष्टविशेषणात् श्लिष्टं जलमुच इवेत्युपमाननिर्देशात् ॥
कुलकम् ५६ - ६०
हेतु-श्लिष्टम् -
८६६ - विद्रुम-मणि - कृत -भूषा मुक्ता-फल-निकर- रञ्जिताऽऽत्मानः ॥ बभुरुदक- नाग- भग्ना
वेला-तट- शिखरिणो यत्र ॥ ५७ ॥
"
विदुमेत्यादि - वेलातटशिखरिणो यत्रेति जलनिधौ बभुः शोभन्ते स्म । ते तमीयुरिति वक्ष्यमाणेन संबन्धः । वेलातटाः शिखरिणश्वेति द्वन्द्वः । शेषाणि विशेषणान्युभयन्न तुल्यानि । इदमपि यथानिर्दिष्टमेव । किंतु हेतुश्लिष्टं हेतुद्वारेण विशेषणानां निर्देशात् । विद्रुममणिकृत भूषात्वात् जलहस्तिभग्नत्वाच्च बभुरिति ॥ अपहुति:
८६७ - भृत- निखिल रसा- तलः स-रत्नः
शिखरि - समो र्मि- तिरोहिताऽन्तरीक्षः ॥ कुत इह परमार्थतो जलौधो
जल - निधिमयुरतः समेत्य मायाम् ॥ ५८ ॥
'
भृतनिखिलरसातल इत्यादि - एवंगुणविशिष्टो जलौघः कुत इह प्रदेशे परमार्थतः परमार्थेन विद्यते । किं तर्हि माया । यतः पूरिताशेष पातालत्वात् सरबत्वात् । शिखरिसमैरूर्मिभिः पिहितान्तरिक्षत्वाच्च । सराघवाः लवङ्गसेनाः समेत्य मायामिव जलनिधिमीयुः ज्ञातवत्यः । सर्वे गत्यर्था ज्ञानार्थं इति । '९६४ । भृन भरणे' इति भौवादिकः । अपह्नुतिरिति मायामित्यन्तर्गतोपमारूपतया निर्देशात् । विद्यमानार्थस्य चापह्नवात् । तथा चोक्तम्- 'अपह्नुतिरितीष्टात्र किंचि दन्तर्गतोपमा ॥ भूतार्थापह्नवादेषा क्रियते ऽस्याभिदा यथा ॥' इति ।
विशेषोक्तिः८६८ - शशि-रहितमपि प्रभूत- कान्ति विबुध-हृत-श्रियमप्यं नष्ट - शोभम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
-