________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः-२८३
श्लिष्टम्८६४-भुवन-भर-सहान-लद्ध्य-धान्नः
पुरु-रुचि-रत्न-भृतो गुरूरु-देहान् ॥ श्रम-विधुर-विलीन-कूर्म-नक्रान्
दधतमुढूंढ-भुवो गिरीनहींश् च ॥ ५५ ॥ भुवनभरसहानित्यादि-गिरीन् भुवनभरसहान् अहींश्च तादृशानेव दधतं जलनिधिमगमन् । गिरीनलङ्घयधाम्नः भहींश्वानभिभवनीयतेजसः । गिरीन् पुरुरुचिरत्नभृतः अहींश्च महारुचिरत्नभृतः । गिरीन् गुरुदेहान् भहींश्च महाका. यान् । श्रमविधुराः श्रमपीडिताः विलीनाः कूर्मा नक्राश्च येषु तान् गिरीनहींश्चो. दूढभुवो इतवसुधान् । गिरीनहींश्च । १४०। न च्छव्यप्रशान् ।७।३।७।' इति रुत्वं पूर्वस्यानुनासिकः । श्लिष्टमिति । उपमानेनोपमेयत्वस्य साधनात् । तथा चोक्तं विशेषणेन क्लिष्टम्-'उपमानेन यत्तत्त्वमुपमेयस्य साध्यते ॥ क्रियागुणाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥' इति । अत्रोपमानभूतैरहिभिरुपमेयभू. तानां गिरीणां तत्त्वस्य ताद्रूप्यस्य भुवनभरादिताद्रूप्यक्रियया तद्गुणेन च साध. नेन गिरिमिरहिभिश्च नान्ना च शब्देन भुवनभरसहानित्यादिना साध्यमान. त्वात् । रूपकमपीदृशमेव । किंतु श्लिष्टस्य भेदेनोपमेययोर्युगपत्प्रयोगात् । रूपके पुनरेकस्यैवोपमेयपुरुषस्य व्याघ्र उपमानम् । तथा चोक्तम्-'लक्षणं रूपकेऽपीदं विद्यते काममत्र तु ॥ दृष्टः प्रयोगो युगपदुपमानोपमेययोः ॥' इति । तदुक्तम् । लक्षणं श्लिष्टं सहोक्त्युपमाहेतु निर्देशात्रिविधम् । यथोक्तम्-'श्लेषादेवार्थवच. सोर्यस्य च क्रियते भिदा ॥ तत्सहोत्तयुपमाहेतुनिर्देशात्रिविधं यथा ॥' इति । तत्रेदं सहोक्तिश्लिष्टमुक्तं गिरीनहींश्चेति सहोत्या निर्देशात् ॥
लिष्टमेव८६५-प्रददृशुरुरु-मुक्त-शीकरौघान्
विमल-मणि-द्युति-संभृतेन्द्र-चापान् ॥ जल-मुच इव धीर-मन्द्र-घोषान् क्षिति-परिताप-हृतो महा-तरङ्गान् ॥ ५६ ॥
गिरीणां तव
च शब्देन भु
योर्युगपत्प्रयो
१-१३३१॥ गृह-देह-त्विट्प्रभावा धामानि-' इति नानार्थात् गिरिपक्षे भलङ्घयानि धामानि देहा येषामित्यर्थः । अहिपक्षे च धामानि तेजांसीति । २-गुरुवः जडाः उरवः विशालाश्च देहा येषामिति विग्रहः। ३-अत्र गिरिपक्षे अर्धष्टीकायां स्फुट एव । भहिपक्षे तु अमेण भयादितस्ततः पलायनप्रयत्नेन विधुराः प्रान्ताः सन्तो विलीनाः विशेषेण लयं नाशं प्राप्ताः कूर्मादयो येष्वित्यर्थः।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com