________________
२८२ भट्टिकाव्ये - तृतीये प्रसन्न -काण्डे लक्षण-रूपे प्रथमो वर्गः,
सलिलसमुदयैर् महा-तरङ्गैर् भुवन-भर क्षमध्ये भिन्न- वेलम् ॥ ५२ ॥
जलनिधिमित्यादि — महेन्द्रकुञ्जत् जलिनिधिमगमन् गतवत्यः प्लवङ्गसेनाः । ऌदित्त्वाच्चेरङ् । प्रचयेन उच्चतथा तिरोहितास्तिग्मरश्मिभासो येन निकुजेन तस्मानिकुञ्जत् । सलिलसमुदयैर्महा तरंगैर्महोर्मिभिः भुवनस्य भरणे क्षममपि शक्तमपि । ‘१५८६। भृ भरणे' इति कैयादिकः । तस्य ऋतोरपि रूपम् । अभिन्नवेलं अनतिक्रान्तमर्यादं जलनिधिम् । उदारमिति उदात्तमित्यर्थः । महानुभावताप्रतिपादनात् । यतो महातरङ्गैर्जलसमूहैर्भुवनभरक्षममपि अभिनवेलमिति । द्विविधमुदारं महानुभावतया विविधरनयोगाच्चेति । इयं महानुभावता दर्शिता ॥ द्वितीयमाह -
उदारमैव
८६२ - पृथु-गुरु-मणि- शुक्ति-गर्भ-भासा ग्लपित - रसा- तल-संभृताऽन्धकारम् ॥ उपहत-रवि-रश्मि-वृत्तिर्मुञ्चैः
प्रलघु- परिप्लवमान - वज्र-जालैः ॥ ५३ ॥
पृथ्वित्यादि -- पृथवो महान्तः गुरवस्तु न परिच्छेद्या मणयों मौक्तिका यासां शुक्तीनां तथाविधानां गर्भस्य भासा दीहया ग्लपितं क्षयितं रसातले संभृतमुपचितमन्धकारं येन तम् । उच्चैरुपरि प्रलघूनामल्पानां परिप्लवमानानां वज्राणां यानि जालानि समूहाः तैरुपहता रविरश्मिवृत्तयो यस्मिन् सः । तं जलनिधिमगमन् । यद्वज्रं वारिणि तरति तत्प्रशस्तमित्युक्तम् । 'एतदेवापरे ऽन्येन वाक्यार्थेनान्यथा विदुः ॥ नानारत्नवियुक्तं यत्तरिकलोदारमुच्यते ॥' इति ॥
उदारमेव
८६३ - समुपचित-जलं विवर्धमाने
र - मल- सरित् सलिलैर् विभावरीषु ॥ स्फुटमेवगमयन्तमूढ-वारीन्
शश-धर-रत्न-मयान् महेन्द्र - सानून् ॥ ५४ ॥
समुपचितजलमित्यादि - विभावरीषु विवर्धमानैरमलैः सरित्सलिलैः समुपचितजलं उदधिं स्पष्टमवगमयन्तं बोधयन्तम् । किमित्याह - महेन्द्रसान्नु शशधररत्नमयान् चन्द्रकान्तस्वभावान् ऊढवारीन् । अन्यथा कथं धीयते जलं यदि चन्द्रकान्तसानवो न स्युः । उदारमेवेति रत्नयोगात् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com