________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २८१
समीपे कृतवसतिं कृतावस्थानं समीयुः । तदेवासमानत्वं दर्शयन्नाह - स्थिरं अचलं अतुलोन्नतिं असाधारण महत्त्वमूढतुङ्गमेघं उद्धृतमहामेघं आश्रयणीयत्वात् । ऊर्जस्वीति साहंकारवस्त्वभिधानात् ॥
पर्यायोक्तिः
८५९ - स्फटिक मणि- गृहैः स-रत्न - दीपैः प्रतरुण - किन्नर-गीत- निस्वनैश् च ॥ अमर-पुर- मतिं सुराङ्गनानां दधतमं दुःखमनल्प-कल्प - वृक्षम् ॥ ५० ॥
स्फटिकमणिगृहैरित्यादि - स्फटिकमणिगृहैः रत्नदीपयुक्तैः प्रतरुणानां किन्नराणां गीत निस्वनैश्च हेतुभूतैः अमरपुरमतिं स्वर्गबुद्धिं सुराङ्गनानां दधतं जनयन्तम् । अदुःखं न विद्यते दुःखमस्मिन्निति सुखहेतुमित्यर्थः । बहुकल्पवृक्षं समीयुः । पर्यायोक्तरिति अमरपुरमतिं दधतमित्यनेन पर्यायेण वचनगत्या तदेवामरपुरमिति प्रतिपादनात् । तथा चोक्तम्- 'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते' इति ॥
समाहितम् —
८६० - अथ ददृशुरुदीर्ण-धूम-धूम्रां दिशमुदधि-व्यवधिं समेत - सीताम् ॥ सह- रघुतनयाः प्लवङ्ग सेनाः
पवन - सुताऽङ्गुलि - दर्शितामु॑द॒क्षाः ॥ ५१ ॥
•
अथेत्यादि - अथ प्रात्यनन्तरं लवङ्गसेनाः सहरघुतनया दिशं ददृशुः । उदधिव्यवधिं सजलधिव्यवधानां दक्षिणामित्यर्थः । ' ३२७० । उपसर्गे घोः किः | ३ | ३|१२|' उदीर्णेन महता धूमेन धूम्रामस्पष्टाम् । समेतसीतां संगता सीतानयेति तृतीयार्थे बहुव्रीहिः । पवनसुतस्याङ्गुल्या दर्शिताम् । उदक्षाः ऊर्ध्वकृताक्षाः । '८५२ | बहुव्रीहौ सक्थ्यक्ष्णोः | ५|४|११३ | ' इति षच् । षिल्लक्षणो ङीष् न भवति तस्यानित्यत्वात् । तेन दंष्ट्रेत्युपपन्नं भवति । समाहितमिति अनन्यमनस्कतया दिशो ऽवलोकनात् ॥
काळापकं चतुर्भिः ५१-५४
उदारम्८६१ - जल-निधिम॑गमन् महेन्द्र - कुञ्जात् प्रचय- तिरोहित - तिग्म-रश्मि-भासः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com