________________
२८० भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे प्रथमो वर्गः,
मर्को भातीन्दुर्यान्ति वासाय पक्षिणः । इत्येवमादिकं काव्यं वार्तामेतां प्रचक्षते'
इति ॥
प्रेयः
८५६ - मधुकर - विरुतैः प्रियाध्वनीनां सरसिरुहैर् दयिताऽऽस्य - हास्य-लक्ष्म्याः ॥
――
स्फुटमेनुहरमाणमा॑दधानं
पुरुष-पतेः सहसा परं प्रमोदम् ॥ ४७ ॥
मधुकरविरुतैरित्यादि - प्रियाध्वनीनां सीतासंबन्धिनां जल्पितानां मधुकरविरुतैः स्फुटं स्पष्टमनुहरमाणमनुकुर्वन्तं सादृश्यमित्यर्थात् । दयितायाः सीतायाः यदास्यं हासश्चैतयोर्लक्ष्म्याः सरसिरुहैः सादृश्यमनुहरमाणं सन्तं महेन्द्रम् । तत्र परास्यलक्ष्म्याः कुमुदैहांसलक्ष्म्याः । अथवा '६३०| तुल्यार्थैः | २|३|७२२' इति षष्ठी । अनुहरमाणशब्दस्य तुल्यार्थत्वात् । सदृशीभवन्तमित्यर्थः । पुरुषपतेः रामस्य सहसा तत्क्षणं आगतमात्रस्येत्यर्थः । परमुत्कृष्टं प्रमोदमादधानं जनयन्तं समीयुः । प्रेय इति प्रियतमवस्त्वभिधानात् ॥
रसवत् ८५७ - ग्रह - मणि - रसनं दिवो नितम्बं विपुलम॑नुत्तम-लब्ध - कान्ति- योगम् ॥ च्युत घन - वसनं मनोऽभिरामं शिखर- करैर् मदनादिव स्पृशन्तम् ॥ ४८ ॥
-
ग्रहेत्यादि - दिवो नितम्बं मध्यभागं ग्रहाः मणिरसनेव यस्य । विपुलं विस्तीर्णम् । न विद्यते उत्तमो ऽस्मादित्यनुत्तम अतिशयवान् । लब्धः कान्त्या योगो येन । च्युतो धनो वसनमिव यस्मात् । शिखरैः करैरिव मदनादिव स्पृशन्तं महेन्द्रम् । रसवदिति दिवो गिरेश्व स्त्रीपुंसयोरिव शृङ्गाररसाभिधानात् । तथा चोक्तम्- 'रसवद्दर्शितं स्पष्टं शृङ्गारादिरसं यथा ।' इति ॥
ऊर्जस्वी—
८५८ - प्रचपलम॑ - गुरुं भराऽसहिष्णुं जनम॑समानम॑नूर्जितं विवर्ज्य ॥ कृत- वसतिमिवाऽर्णवोपकण्ठे
स्थिरम - तुलोन्नतिमूढ - तुङ्ग- मेघम् ॥ ४९ ॥
प्रचपलमित्यादि - जनं लोकं प्रचपलं भस्थिरं अगुरुं लघु अत एव भरासहिष्णुं अनूर्जितं अनहंकारं विवज्यैवा समानत्वात् अर्णवस्य समुद्रस्योपकण्ठं
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com