________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - १७९
मुमुचुः प्रययुर्, द्रुतं समीयुर्, वसुधां व्योम, महीधरं महेन्द्रम् ॥ ४४ ॥
कपि पृष्ठगतावित्यादि - ततो ऽनन्तरं नरेन्द्रौ रामलक्ष्मणौ कपयश्च सर्व एते मुमुचुः वसुधां त्यक्तवन्तः । प्रययुष्यम आकाशम् । महेन्द्रं महीधरं समीयुः गतवन्तः । लिटः किश्वे गुणाभावाद्धातोरियङ् । नरेन्द्रौ किंभूतौ । कपिठगतौ हनूमन्तमारूढौ । यथासंख्यमिति मुमुचुरित्यादिना क्रियाणां वसुधादीनां च कर्मणामनुक्रमशो निर्देशात् । यथोक्तम्- 'भूयसामुपदिष्टानां क्रियाणामथ कर्मणाम् ॥ क्रमशो यो ऽनुनिर्देशो यथासंख्यं तदुच्यते ॥' इति ॥ उत्प्रेक्षा८५४ - स्थितमिव परिरक्षितुं समन्ता
दुदधि- जलौघपरिवाद् धरित्रीम् ॥ गगन - तल- वसुन्धराऽन्तराले जल - निधि-वेग-सहं प्रसार्य देहम् ॥ ४५ ॥
स्थितमित्यादि - उदधिजलौघात्समन्ततो यः परिप्लवो विनाशः तस्माद्धरित्रीं परिरक्षितुमिव गगनतलवसुन्धरयोरन्तराले देहं शरीरं जलनिश्धिवेगं सहत इति मूलविभुजादित्वात्कः । प्रसार्य स्थितं महेन्द्रं समीयुः । उत्प्रेक्षेति । यथोक्तम्- 'भविवक्षितसामान्यात्किंचिचोपमया सह ॥ अतगुणक्रियारोपादुत्प्रेक्षातिशयान्विता ॥' इति । अत्र महीधरसामान्यस्यापि विवक्षितत्वादविवक्षितं सामान्यस्वं रक्षितुमिवेति किंचिदुपमया सह महेन्द्रगिरेरतगुणतया रक्षणक्रियायोगः । गगनतलं वसुन्धरां व्याप्य स्थितमित्यतिशयान्विता ॥
वार्ता
८५५ - विषधर - निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव- लोकम् ॥ घन - विपुल - नितम्ब - पूरिताशं
फल- कुसुमाऽऽचित वृक्ष- रम्य-कुञ्जम् ॥ ४६ ॥
विषधर निलय इत्यादि - विषधर निलये पाताले निविष्टमूलं महेन्द्रम् | शिखरशतैः करणभूतैः परिमृष्टः संसृष्टः देवलोको येन । घनैर्निरन्तरैर्विपुलैर्विस्त्रीर्णैर्नितम्बैमेखला भागैः पूरिता व्याप्ता आशा दिशो येन । फलकुसुमा चितैर्वृक्षैः रम्यं कुअं गहनं यस्मिन् । वार्तेति तत्वार्थकथनात् । सा द्विविधा विशिष्टा निर्विशिष्टा च । तत्र या पूर्वा स्वभावोक्तिरुदिता । यथेयमेव । तथा चोक्तम् - 'स्वभावोक्तिरलंकार इति केचित्प्रचक्षते ॥ अर्थस्य तादवस्थ्ये च स्वभावोऽभिहितो यथा ॥' इति । निर्विशिष्टा वार्ता नामालंकारः । यथोक्तम्- 'गतोऽस्त.
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com