________________
२७६ भट्टिकाव्ये – तृतीये प्रसन्न - काण्डे लक्षण-रूपे प्रथमो वर्गः,
इदानीमलंकारान्तराण्याह
अर्थाऽन्तरन्यासः
८४६ - ' अहृत धनेश्वरस्य युधि यः समेत-मायो धनं, तमहर्मितो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् ॥ विभव-मदेन निह्नुत-हिया ऽतिमात्र-संपन्नकं, व्यथयति सत्-पथादधिगता ऽथर्वेह संपन् न कम्. ३७ अहतेत्यादि - यो द्विषन् युधि संग्रामे समेतमायः समेता प्राप्ता माया येनेति तृतीयार्थे बहुव्रीहिः । मायावीत्यर्थः । धनेश्वरस्य धनदस्य धनमहृत हृतवान् । ‘२३६९। हस्वादङ्गात् |८|२|२७|' इति सिचो लोपः । तं विबुधैर्देवैः सह कृतोत्तमायोधनं कृतमहासंग्रामम् । निहुता अपल पिता हीर्लज्जा येन विभवमदेन तेन निहुतहिया अतिमात्रं सुष्ठु सम्पन्नकं युक्तं येन परखियमपहृत्यानीतवानसौ तं विलोक्य अहमितः प्राप्तः । विभवमदो लज्जां त्याजयतीत्यमुमेवार्थ अनुस्मृतार्थान्तरमाह — भथेवेति । अथवाशब्दे निपातसमुदायः यस्मादर्थे वर्तते । यस्मादिह लोके संपत् विभूतिरधिगता प्राप्ता सत्पथात् सन्मार्गात् कं न व्यथयति चलयति । व्यथिरत्र चलने वर्तते । अर्थान्तरन्यास इति उक्तादर्थादन्यस्योपन्यासात् । यथोक्तम् — ' उपन्यसनमर्थस्य प्रक्रान्तादपरस्य यत् ॥ ज्ञेयः सो. ऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥' इति ॥
आक्षेपः
८४७ - ऋद्धि-मान् राक्षसो मूढश, चित्रं नोऽसौ यदु॑द्धतः, ॥
को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥३८॥ ऋद्धिमा नित्यादि -- यदसावुद्धतो दुर्वृत्तः न तच्चित्रमाश्चर्यम् । यस्मादसौ ऋद्धिमान् राक्षसश्च । उभयथा विमूढ इत्येतदयुक्तमिति प्रतिषेधयन्नाह - को वेति किमनेनोक्तेन यस्मादनार्याणां तद्विधानां धयै धर्मादनपेते वर्त्मनि मार्गे वर्तितुं को वा हेतुः किं नाम कारणम् । नैवेत्यर्थः । आक्षेप इति प्रतिषेधो नाम । यथोक्तम्- 'प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ॥ आक्षेप इति तं सन्तः शंसन्ति द्विविधो यथा ॥' इति । अत्र पूर्वार्धेनोक्तो य इष्टो ऽर्थः तस्य को वेत्यादिना विशेप्रतिपादनेच्छ्या प्रतिषेध इति । स च उक्त वक्ष्यमाणविषयभेदाद्विविधः । अयमुक्तविषयः ॥
1
आक्षेप एव -
८४८ - तस्या ऽधिवासे तनुरुत्सुका ऽसौ
"
दृष्टा मया राम- पतिः प्र-मन्युः ॥ कार्यस्य सारो ऽयमुदीरितो वः,
प्रोक्तेन शेषेण किमुद्धतेन ॥ ३९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com