________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः-२७५
समपश्यदपेत-मैथिलिं
.दधतं गौरव-मात्रमात्म-वत्. ॥ ३४ ॥ अवसन्नचिमित्यादि-तं शिरोमणि आत्मवदात्मानमिव समपश्यद्रामः । १७७८॥ तेन तुल्यम्-५।१।११५।' इति वतिः । अवसन्नरुचिं मन्दप्रभं वेणीबन्धनमलिनत्वात् । इतरत्र सशोकत्वात् । वनागतं अशोकवनिकाख्याद्वनादागतं इतरं पितुरादेशाद्वनमागतम् । सुप्सुपेति समासः । अनामृष्टं अनपनीतं यदजः तेन विधूसरम् । अभयमपि अपेतमैथिलिं आपेता मैथिली येन यस्माद्वा । दधतं गौरवमानं गुरुत्वमेव न दीत्यादिकं इतरं माहात्म्यं दधतम् । तद्धितोपमेति तद्धितप्रत्यया द्रष्टव्याः ॥
लुप्तोपमा८४४-सामर्थ्य-संपादित-वाञ्छिताऽर्थश्
चिन्ता-मणिः स्यान् न कथं हनूमान् , ॥ स-लक्ष्मणो भूमि-पतिस् तदानीं
शाखामृगाऽनीक-पतिश् च मेने. ॥ ३५॥ सामर्थ्येत्यादि-सामर्थ्येन शक्त्या संपादितो निष्पादितो वान्छितो ऽमिलषितो ऽर्थो येन स हनूमान् कथं चिन्तामणिश्चिन्तामणिरिव न स्यात् । इति तदानीं मेने ज्ञातवान् । सलक्ष्मणः सह लक्ष्मणेन भूमिपती रामः शाखामृगा. नीकपतिश्च सुग्रीवः । लुप्तोपमेति चिन्तामणिरित्यत्रेवशब्दार्थस्य गम्यमानत्वात् लुप्तोपमेति ॥
समोपमा८४५-'युष्मान-चेतन क्षय-वायु-कल्पान्
सीता-स्फुलिङ्गं परिगृह्य जाल्मः ॥ लङ्का-वनं सिंह-समो ऽधिशेते
मर्तु द्विषन्नित्यवदद्धनूमान् ॥ ३६ ॥ युष्मानित्यादि-युष्मान् रामादीन क्षयवायुकल्पान् प्रलयकालमहावायुसदृशान् भचेतन् अजानन् । '३९। चिती संज्ञाने' इति भौवादिकः। द्विषन् दशाननः जाल्मः मूर्खः सीतास्फुलिङ्गं सीतामग्निकणमिव परिगृह्यादाय लङ्का-वनमिवाधिशेते । मर्तु मरिष्यामीति सिंहसम इत्यवदद्धनूमान् । समोपमे समशब्देनोपमाया अभिधानात् । अत्र निभ-सदृशादयो ऽपि द्रष्टव्याः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com