SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७४ भट्टि-काव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे प्रथमो वर्गः, उपमाया लक्षणम्-'विरुद्धेनोपमानेन देशकालक्रियादिभिः ॥ उपमेयस्य यत्साम्यं गुणमात्रेण सोपमा ॥' इति । अत्र विरुद्धदेशकालक्रियागुणः पुरुषोत्तम उपमानं तेन रागस्योपमेयस्य तपोवनस्थत्वेन विश्तजटाजिनवल्कलत्वेन नरानुकारिलक्ष्मणेनानुगतत्वेन च गुणमात्रेण साम्यमुपमानम् ॥ यथेवशब्द उपमार्थसूचकस्तथान्योऽपीति दर्शयन्नाह यथोपमा८४१-कर-पुट-निहितं दधत् स रत्नं परिविरलाऽङ्गुलि निर्गताऽल्प-दीप्ति ॥ 'तनु-कपिल-घन-स्थितं यथैन्, नृपमनमत् परिभुग्न-जानु-मूर्धा. ॥ ३२ ॥ करपुटनिहितमित्यादि-करपुटे करयुग्मे निहितं न्यस्तं रत्रं सीताचूडामणि परिविरलाङ्गुलिभ्यो निर्गता अल्पा दीप्तयो यस्य तद्वं दधद्धारयन् स हनूमान् नृपं राममनमत् प्रणतवान् । परिभुग्ने अवनते जानुनी मूर्धा च यस्य हनूमतः यथेन्दु इन्दुमिव तनुः अच्छः कपिलश्च यो घनः मेघः तत्र स्थितमिन्दुमिव रत्नम् । यथोपमेति यथाशब्देनोपमार्थस्य गम्यमानत्वात् ॥ सहोपमा८४२-रुचिरोन्नत-रत्न-गौरवः परिपूर्णा-ऽमृत-रश्मि-मण्डलः ॥ समदृश्यत जीविताऽऽशया सह रामेण वधू-शिरोमणिः ॥ ३३ ॥ रुचिर इत्यादि-वधूशिरोमणिः सीताचूडामणिः । उन्नतं महदनगौरवं महाादिलक्षणं यस्य रुचिरो दीप्तिमांश्चासौ उन्नतरनगौरवश्चेति सः। परिपूर्णस्यामृतरश्मेश्चन्द्रमसो मण्डलमिव मण्डलं यस्य सः । रामेण समदृश्यत संदृष्टः । कर्मणि लङ् । जीविताशया सह सार्धं तद्दर्शनतो जीवितोऽसीति तदाशया सह । सा रुचिरा तुष्टिदा रुचिं राति ददातीति कृत्वा । उन्नतरत्नगौरवादुन्नत रत्नेष्विव गौरवं बहुमानो यस्यामिति । परिपूर्णममृतभमरणं रश्मिमण्डलं यस्यामिति । सहोपमेति सहशब्देन जीविताशया उपमाद्योतनात् ॥ तद्धितोपमा८४३-अवसन्न-रुचिं वनाऽऽगतं 1 तमंनाऽऽमृष्टरजो-विधूसरम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy