________________
तथा लक्ष्य रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २७३
दुधुवुर् मधु-काननं ततः कपि- नागा मुदिताऽङ्गदाऽऽज्ञया ॥ २९ ॥
परिखेदितेत्यादि - तत उत्तरकालं कपयो नागा इव हस्तिन इव कपिनागाः मुदितस्याङ्गदस्याज्ञया मधुकाननं सुग्रीवस्य क्रीडोद्यानं दुधुवुः कम्पितवमतः । मधून्युपभुज्य संभ्रममकुर्वन्नित्यर्थः । परिखेदिताः परिमृदिताः विन्ध्यवीरुधो विन्ध्यलतागुल्मा यैः । परिपीतममलनिर्झराम्भो यैः । अर्धरूपकमिति पश्चिमा कपिनागा इति रूपितम् ॥
एतद॑न्वर्थोपमा-युक्तं ललामकम् - ८३९ - विटपिमृग-विषाद-ध्वान्त- नुद् वानराऽर्कः प्रिय-वचनम-यूखैर् बोधिता॒ऽर्थाऽरविन्दः, ॥ उदय - गिरिमिव । ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृप-हृदय-गुहा- स्थं घ्नन् प्र-मोहा॒ऽन्धकारम्. ॥ ३० ॥
विटपीत्यादि - वानरार्कः वानरोऽर्क इव वानरार्कः । उदयगिरिमिवाद्धिं पर्वतं महेन्द्रं संप्रमुच्य खमाकाशमभ्यगात् अभिगतवान् । विटपिमृगाणां यो विषाद आसीत् कथं सीतान्वेषणीयेति स ध्वान्तमिव तं नुदतीति किप् । प्रियवचनानि मयूखा इव तैः करणभूतैः बोधितमर्थारविन्दं येन । अर्थः सीतोपलब्धिः सोऽरविन्दमिव । नृपहृदयं गुहेव तत्र तिष्ठतीति नृपहृदगुहास्थम् । प्रमोहो विषादोअन्धकार इव तं नन्हनिष्यन् । वर्तमानसमीपत्वात् भविष्यति लट् । एतदिति रूपकं अम्वर्धयोपमया युक्तं ललाम नाम । यत उदेश्यस्मादित्युदकः '३१८८| अकर्तरि च कारके ।३।३।१९। ' इत्यच् । स चासौ गिरिश्चेत्यनुगतार्थता । यत्रान्वता नास्त्युपमायाः तदुपमायुक्तमेव रूपकं द्रष्टव्यम् ॥ उपमालंकारं दर्शयन्नाह—
इवोपमा
८४० - रघुतनयम॑गात् तपो - वन - स्थं
विधृत - जटाऽजिन वल्कलं हनूमान् ॥ परमिव पुरुषं नरेण युक्तं सम-शम-वेश-समाधिना ऽनुजेन ॥ ३१ ॥
रघुतनयमित्यादि - हनूमान् रघुतनयमगात् प्राप्तवान् । तपःप्रधानं वनं तपोवनं तत्र स्थितम् । विधृता जटा अजिनं चर्म वल्कलं च येन तम् । अनुजेन कनीयसा भ्रात्रा लक्ष्मणेन समास्तुल्याः शमा वेशाः समाधयश्च यस्य तेन युक्तं परममुत्तमं पुरुषमिव पुरुषोत्तममिव नरेण युक्तम् । बदरिकाश्रमे नरनारायणयोस्तपश्चर्यया स्थितत्वात् । इवोपमेति इवशब्देनोपमार्थस्य गम्यमानत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com