________________
२७२ भट्टि-काव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे प्रथमो धर्गः,
अस्यैव भेदा अपरे चत्वारः
एतद् विशिष्टोपमा-युक्तं रूपकम्८३६-चल-पिङ्ग-केशर-हिरण्य-लताः
स्फुट-नेत्र-पति-मणि-संहतयः॥
कलधौत-सानव इवा ऽथ गिरेः । कपयो बभुः पवन-जाऽऽगमने. ॥ २७ ॥ चलेत्यादि-अथ पवनजागमने हनूमदागमने कपयो गिरेस्तस्यैव कलधौतसानव इव सौवर्णैकदेशा इव बभुः शोभन्ते स । पिङ्गकेशराणि पिङ्गलसटाः तानि हिरण्यलता इव सुवर्णलता इव ताश्चला येषां कपीनाम् । नेत्रपतयो मणि. संहतय इव ताः स्फुटा उजवला येषामिति । एतदपि रूपकमेव । किंतु कलधौ. तत्वेन सानूनां विशिष्टत्वाद्विशिष्टोपमायुक्तं कमलकं नाम ॥
एतच्छेषाऽर्थाऽन्ववसितम॑वतंसकम्८३७-कपि-तोय-निधीन प्लवङ्गमेन्दुर्
मदयित्वा मधुरेण दर्शनेन । वचनाऽमृत-दीधितीर् वितन्व
नकृता ऽऽनन्द-परीत-नेत्र-वारीन. ॥ २८ ॥ कपीत्यादि-प्लवङ्गम इन्दुरिव प्लवङ्गमेन्दुः। कपयस्तोयनिधय इव कपि. तोयनिधीन् । मधुरेण सुखेन दर्शनेन मदयित्वा हर्षयित्वा । '४७२। मदी हर्षग्लेपनयोः।' इति घटादित्वान्मित्त्वे ह्रस्वत्वम् । वचनानि अमृतमयदीधितय इव वचनामृतदीधितीवितन्वन् विस्तारयन् । लोकवृत्तान्तसंबोधकमाह्लादकं वचनमुदाहरनित्यर्थः । आनन्देन हर्षेण परीतं संजातं नेत्रवारि येषां तानेवंविधानकृत कृतवान् । एतद्रूपकं शेषार्थान्ववसितम् । रूपितादन्यो यो ऽर्थः 'आनन्दपरीतनेत्रवारीन्' इति स शेषः तेनान्ववसितं युक्तमवतंसकं नाम विसदृशस्यार्थस्य लपितत्वात् । तदेवान्यैः खण्डरूपकमित्युच्यते ॥
अर्ध-रूपकम्८३८-परिखेदित-विन्ध्य-वीरुधः
परिपीताऽमल-निर्झराऽम्भसः॥
१-१२८३॥ कलधौतं रूप्य-हेनोः।' २–११९। भानुः करो मरीचिः स्त्री-पुंसयोर् दीधितिः स्त्रियाम् । इति सर्वत्र ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com