________________
तथा लक्ष्ये रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः-२७१
स्मित-दर्शित-कार्य-निश्चयः
कपि-सैन्यैर् मुदितैरमण्डयत्. ॥ २४ ॥ स गिरिमित्यादि-स लतामृगो हनूमान् प्रयोजकका। गिरिमङ्गदादिमिरध्यासितं तरुखण्डमण्डितं त्वरया वेगेन समवाप्य कपिसैन्यमुदितैहष्टैः प्रयोज्यकर्तृभिः अमण्डयत् । ३३६। मडि भूषायाम्' इति भौवादिकः । चौरादिके तु कपिसैन्यैः करणभूतैरिति योज्यम् । मुदितत्वे कारणमाह-स्मितदर्शितकार्यनिश्चयः ईषद्धसितप्रकटीकृतसीतोपलब्धिनिश्चयः । अन्तदीपकमिति अमण्डयदिति क्रियापदस्यान्ते निर्दिष्टत्वात् ॥
मध्य-दीपकम्८३४-गरुडाऽनिल-तिग्म-रश्मयः
पततां यद्यपि संमता जवे, ॥
अ-चिरेण कृताऽर्थमागतं - तममन्यन्त तथाप्यतीव ते. ॥ २५ ॥ गरुडेत्यादि-पततां गच्छतां मध्ये यद्यपि गरुडादयो जवे वेगविषये सं. मताः अभिमताः तथापि तं हनूमन्तं अचिरेणैव कालेन कृतार्थं कृतकृत्यमागतं अतीव जविनं ते कपयः अमन्यन्त । मन्यतेर्लङि रूपम् । मध्यदीपकमिति क्रियापदस्य मध्ये निर्दिष्टत्वात् ॥ रूपकमनेकविधं दर्शयन्नाह
रूपकम्८३५-व्रण-कन्दर-लीन-शस्त्र-सर्पः
पृथु-वक्षःस्थल-कर्कशोरु-भित्तिः॥ च्युत-शोणित-बद्ध-धातु-रागः
शुशुभे वानर-भू-धरस् तदा ऽसौ. ॥ २६ ॥ व्रणेत्यादि-असौ वानरो भूधर इव वानरभूधरः । '७३५। उपमितम् १२।११५६।' इत्यादिना समासः । तदा तस्मिन्वानरमध्यगमनकाले कृतार्थः शुशुभे शोभते स्म । व्रणानि शस्त्रकृतानि कन्दराणीव । शस्त्राणि सर्पा इव शत्रसर्पाः व्रणकन्दरेषु लीनाः शस्त्रसो यस्य । वक्षःस्थलं कर्कशोरुभित्तिरिव सा पृथुला विस्तीर्णा यस्य सः । शोणितं बद्धधातुराग इव श्लिष्टगैरिकादिराग इव स च्युतो यस्य । सर्वत्र '७३५। उपमितम्-।२।१॥५६॥' इत्यादिना समासः । रूपकमिति सावयवेन भूधरेणोपमानेन सावयवस्य कपेरुपमेयस्य तत्स्वभावतयाध्यारोपितत्वात् । यथोक्तम्-'उपमानेन तुल्यत्वमुपमेयस्य रूप्यते ॥ गुणानां समर्ता दृष्ट्वा रूपकं नाम तद्विदुः ॥' इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com