________________
२७० भट्टि-काव्ये-तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः,
तमासाद्य प्राप्य हरयः कपयः संत्रस्ताः सभयाः मुमुहुः मुहुः क्षणम् । श्लोकाधन्तयमकमिति श्लोकस्यादावन्ते च यमितत्वात् ॥
अर्थालंकारस्तु दीपकरूपकादिभेदेनानेकप्रकारः। तत्र वाक्यार्थप्रकाशनाद्दीपकमुच्यते । तदादिमध्यान्तभेदात्रिविधमिति दर्शयन्नाह
___ आदि-दीपकम्८३२-गच्छन् स वारीण्यकिरत् पयोधेः,
कूल-स्थितांस् तानि-तरूनधुन्वन् , ॥ पुष्पाऽऽस्तरांस ते ऽङ्ग-सुखानेतन्वन् ,
तान् किन्नरा मन्मथिनो ऽध्यतिष्ठन्. ॥२३॥ गच्छन्नित्यादि-स हनूमान् वेगेन गच्छन् पयोधेारीणि वेगजेन वायुना अकिरत् निक्षिप्तवान् । तानि वारीणि अधिक्षिप्तानि कूलस्थितांस्तरूनधुन्वन् कम्पितवन्ति । '१३२५। धूञ् कम्पने' इति भौवादिकः । ते तरवः कम्पिताः पुष्पास्तरान् पुष्पाणां प्रकरान् आस्तीर्यन्त इति ३२३२। ऋदोरम् ॥३॥३॥५७।' अङ्गसुखान् मृदुस्पर्शत्वात् कायस्य सुखहेतूंनतन्वन् विस्तारितवन्तः । तान् पुष्पास्तरान् किन्नराः मन्मथिनः कामवन्तः, अध्यतिष्ठन् अध्यासितवन्तः । ५४२। अधि-शीङ्-१०४१४६' इत्यादिनाधिकरणस्य कर्मसंज्ञा । आदिदीपकमिति क्रियापदस्यादौ श्रूयमाणत्वात् । द्विविधं ह्यादिदीपकम् । एकतिङनेकतिङ्सहितं च । तत्र यत्पूर्व तदेकमप्यनेकार्थप्रकाशकम् । यथाह भामहः-'मदो जनयति प्रीतिमानन्दं मानभङ्गुरम् । यत्प्रियासंगमोत्कण्ठामसह्यां मनसः शुचम् ॥' इति । यत्तुं द्वितीयं तत्समस्तवाक्यार्थप्रकाशं यथेदमेव । तत्र ह्युत्तरेषां वाक्यार्थानामायेनैव दीपनात् । तस्मिन्नसति शेषाणामस्फुटत्वात् । पूर्वकं परित्यज्य द्वितीयस्य प्रदर्शनं यत् तत्प्रतीपदीपकं नाम चतुर्थमस्तीति दर्शनार्थम् । तद्यथा-'तृष्णां लिन्धि, भज क्षमा, जहि मदं, पापे रति मा कृथाः, सत्यं ब्रूह्यनुयाहि साधुपदवीं, सेवस्व विद्वजनान् ॥ मान्यान्मानय, विद्विषो ऽप्यनुनय, प्रख्यापय स्वान् गुणान्, कीर्ति पालय, दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥' इति । शेषो यदत्र परस्परमसंबद्धमिति ॥
अन्त-दीपकम्८३३-स गिरि तरु-खण्ड-मण्डितं
समवाप्य त्वरया लता-मृगः ॥
१-इदं चेन्द्रवज्रा वृत्तम् । तल्लक्षणमपि तत्रैव–स्यादिन्द्रवज्रा यदि तौ नगौ गः' इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com