________________
तथा लक्ष्य रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २७७
तस्येत्यादि - तस्य रावणस्याधिवासे लङ्कायां असौ रामपतिः सीता मया दृष्टा । रामः पतिर्यस्या इति । '४९१ | विभाषा सपूर्वस्य |४|१|३४|' इति नकाराभावपक्षे रूपम् । तनुः कृशाङ्गी । '५०२ । वोतो गुणवचनात् |४|१|४४ |' इति ङीषो विकल्पः । उत्सुका सोत्कण्ठा, प्रकृष्टशोका । '५२१। ऊडुतः |४|१|६६ । ' इत्यूङ् न भवति । तत्राऽयोपधादिति वर्तते । भयं कार्यस्यास्मदायत्तस्य सारः शरीरं सीतादर्शनम् उदीरितः कथितः । वो युष्मभ्यम् । शेषेणोद्धतेन अशोकवनिकाभङ्गादिना किं प्रोक्तेन । न किंचित् प्रयोजनम् । स एवेत्ययमप्याक्षेप एव किंतु वक्ष्यमाणविषयः । अत्र पूर्वार्धेनोको य इष्टोऽर्थः तस्य विशेषामिधित्सया प्रोकेनेत्यादिना शेषार्थप्रतिषेधः ॥
व्यतिरेकः
८४९ - समतां शशि - लेखयौपयाया
-
देवदाता प्र-तनुः क्षयेण सीता, ॥ यदि नाम कलङ्क इन्दु-लेखामंतिवृत्तो लघयेन न च॑ ऽपि भावी. ॥४०॥
समतामित्यादि - सीता भवदाता शुद्धा प्रतनुः प्रकर्षेण तन्वी क्षयेण दौर्बल्येन एतावता तुल्यधर्मत्वाच्छशिलेखया समतां तुल्यतामुपयायात् उपगच्छेत् । यदि कलङ्की नामापरोऽतिवृत्तोऽतिक्रान्तः इन्दुलेखां न लघयेत् न न्यूनयेत् । तथा भावी भागामी नालघयिष्यत् यदि । न चैवं तस्माच्चन्द्रलेखया न समेति भावः । व्यतिरेक इति अयं व्यतिरेको नाम अन्वयः । पूर्वार्धेनोपमानोपमेययोरथ दर्शितः तस्य पश्चार्धेन भेददर्शनात् । यथोक्तम्- 'उपमानवतो ऽर्थस्य यद्विशेपनिदर्शनम् ॥ व्यतिरेकं तमिच्छन्ति विशेषोत्पादनाद्यथा ॥' इति ॥
विभावना -
८५० - अ - परीक्षित- कारिणा गृहीतां त्वमसेवित- वृद्ध पण्डितेन ॥ अ- विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुमलं घटस्व राजन् ! ॥ ४१ ॥
अपरीक्षितकारिणेत्यादि - अपरीक्षितकारिणा अविचारितकरणशीलेन, अनासेवितवृद्ध पण्डितेन अपर्युपासितज्ञानवृद्धसत्पथेन, अनिरोधित निष्ठुरेणानपकृतो ऽपि क्रूरः सन् यः शत्रुः तेन गृहीतां साध्वीं पतिव्रतां दयितामिष्टां श्राणाही श्रातुं रक्षितुमलं पर्याप्तं स्वं घटस्व यतस्व । हे राजन्नित्यवदद्धनूमान् । विभावनेति परीक्षा सेवा विरोधनं चेति तिस्रः क्रियाः तासां यः प्रतिषेधः नञा तेन अपरीक्षा पूर्वकं यत् करणं तथा वृद्धसेवापूर्वकं यत्पण्डितत्वं यच्चाविरोधपूर्वकं भ० का ० २४
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com