________________
२६८ भट्टि-काव्ये-तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, शोभा अनिशमवन्तं रक्षन्तं पर्वतम् । मध्यान्तयमकमिति पादस्य मध्ये अन्ते च यमितत्वात् ॥
गर्भ-यमकम्८२८-उदपतद् वियद-प्रगमः परै
रुचितमुन्नति-मत्-पृथु-सत्त्व-वत् ॥ रुचित-मुन् नति-मत् पृथु-सत्त्व-वत्
प्रतिविधाय वपुर् भय-दं द्विषाम् ॥ १८ ॥ उदपतदित्यादि-वियदाकाशमुदपतत् उत्पपात । परैः शत्रुमिरप्रगमः अनभिभवनीयः । गमेः '३२३॥ ग्रह-वृ-र-निश्चि-गमश्च ।३।३।५८।' इति कर्मज्यप् । '६२३। कर्तृ-कर्मणोः कृति ।२।३।६५।' इत्यत्र 'विभाषोपसर्गे' इति मण्डूकप्लुत्या अनुवर्तनीयम् । सोपसर्गस्य प्रयोगे विभाषा षष्ठी। रुचितं शोभितं वियनिर्मलत्वात् । अथवा अप्रगमो ऽन्येषामित्यर्थात् । परैरुत्कृष्टैरन्तरिक्षचारिमिः रुचितं दीपितम् । उन्नतिमत् उच्छ्राययुक्तम् । पृथुसत्त्ववद्भिः प्राणिभिर्युक्तम् । किं कृत्वा उदपतदित्याह-वपुः शरीरं प्रतिविधाय कृत्वा । रुचितान् तुष्टान्मो. दयतीति रुचितमुत् । ण्यर्थो ऽत्रान्तर्भूतः । द्विषां शत्रूणां भयदम् । नतिमत् तदानीं देवेषु कृतशिरःप्रणामत्वात् । अथवा रुचिरमेवाभीष्टमेव वपुः । उन्नति. मत् विभूतिमत् । पृथुसत्त्ववत् विस्तीर्णसत्त्ववत् । सत्वगुणयुक्तं वा । गर्भयमकमिति द्वयोः पादयोर्मध्ये पादद्वयस्य यमितत्वात् ॥
सर्व-यमकम्८२९-बभौ मरुत्वान् वि-कृतः स-मुद्रो,
बभौ मरुत्वान् विकृतः स-मुद्रः, ॥ बभौ मरुत्वान् विकृतः समुद्रो,
बभौ मरुत्वान् विकृतः स मुद्रः. ॥ १९॥ बभावित्यादि-मरुत्वान् हनूमान् पितृत्वेन मरुद्विद्यते अस्येति कृत्वा १८९८। झयः ।।२।१०।' इति वत्वम् । विविधं कृतं वनभङ्गादि कर्म येन विविधं वा कृन्ततीति विकृतः । इगुपधलक्षणः कः । वृक्षादीनां छेदक इत्यर्थः । समुद्रो मुद्रयाभिज्ञानेन चूडामणिना वा सह वर्तत इति । समुत्पतितो नभसि तेजःपुञ्ज इव बभौ दीप्यते स्म । इत्ययं प्रथमः पादः । तस्मिन् तथाभूते मरुस्वानिन्द्रः । अनुजीवितया मरुतो देवा अस्य सन्तीति कृत्वा । विकृतः रावणपरिभवात् विहतदेवाधिपत्यः विकृतः। स च समुद्रः मुद्रया अप्सरसा सह
१-उपेन्द्रवज्रा वृत्तमिदम् । 'उपेन्द्रवज्रा जत्त-जास् ततो गौ' इति वृत्तरत्नाकरे तल्लक्षणात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com