________________
२६६ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, ना ssरीणाम॑नल - परीत- पत्र- पुष्पान् ना ऽरीणाम॑भवदु॑पेत्य शर्म वृक्षान् ॥ १३ ॥
नारीणामित्यादि - अरीणां संबन्धिन्यो हिरण्यवाप्यः सुवर्णघटिता वाप्यः । नारीणां स्त्रीणाम् अनितापान्देहखेदान्नापनुनुदुः नापनीतवत्यः । कुतः । भारीणामलसलिला: । '११३८ । रीङ् स्रवणे ।' इत्यस्मादाङ्पूर्वात् 'स्वादय ओदितः' इति निष्ठानत्वम् । आरीणं गतममलं सलिलं यासु हिरण्यवापीध्विति । वृक्षांचीपेत्य गत्वा तासां शर्म सुखं नाभवत् न जातम् । अनलपरीतपत्रपुष्पत्वाद्वृक्षाणाम् । आरीणां नारीणामिति योज्यम् । शत्रु संबन्धिनीनामित्यर्थः । भरीणामिमा इति '१५००। तस्येदम् | ४|३|१२०|' इत्यण् । तदन्तात् '३७० | टिड्ढाणञ् - |४|१|१५|' इत्यादिना ङीप् । अत्र वृक्षानुपेत्य स्थितानामित्यध्याहर्तव्यम् । अन्यथा समानकर्तृकत्वात् पूर्वकाले क्त्वाप्रत्ययो न स्यात् । वृन्तयमकमिति प्रतिपदं पुष्पफलस्येव मूले ऽवस्थितत्वात् ॥
।
पुष्प-यमकम् -
८२४ - अथ लुलित- पतत्रि - मालं रुग्णाऽसन-बाण-केशर-तमालम् ॥ स वनं विविक्त-मालं
सीतां द्रष्टुं जगामाऽलम् ॥ १४ ॥
अथेत्यादि - दाहानन्तरं लुलितानां चलितानां पतत्रिणां पक्षिणां माला संहतिर्यस्मिन् तद्वनमशोकवनिकाख्यं स कपिर्जगाम । रुग्णाः भग्ना भसनादयो यस्मिन् वने । तत्रासनः पीतसालः, बाणः ग्रन्थिका, केशरो नागकेशरो देववल्लभो वा । विविक्ताः शुचयो मालाः स्वजो यस्मिन् तद्विविकमालम् । सीतां द्रष्टुं अलं पर्याप्तः सीतां द्रक्ष्यामीति जगाम । पुष्पयमकमिति प्रतिपादं वृन्तादुपरि पुष्पमिवावस्थितत्वात् ॥
पादाऽऽदि-मध्य-यमकम् ८२५-धेन-गिरीन्द्र-विलङ्घन - शालिना वन- गता वन-ज-द्युति-लोचना ॥ जन-मता ददृशे जनकाऽऽत्मजा तरु- मृगेण तरु- स्थल- शायिनी ॥ १५ ॥
१ – गाथावृत्तमिदम् । विषमाक्षरपादत्वात् । तदुक्तम् — 'विषमऽक्षरपादं वा पादैरसमं दश धर्मवत् । यच् छन्दो नोक्तमंत्र गाथेति तत् सूरिभिः प्रोक्तम् ॥' इति भट्टकेदारैः। २–अस्य लक्षणर्मुक्तं प्राकू ( एतत्सर्ग-१ श्लोक टिप्पणे ) ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com