________________
तथा लक्ष्य रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६५
अ-युग्म-पाद-यमकम् -
८२०-न वानरैः पराक्रान्तां महद्भिर् भीमविक्रमैः ॥ न वा नरैः पराक्रान्तां ददाह नगरीं कपिः ॥ १० ॥ नेत्यादि-वानरैरन्यैर्महद्भिर्महाप्राणैर्भीमविक्रमैः असह्यशौयैः शक्रादिभिः न पराक्रान्तां नावष्टधां नगरीं लङ्कां नरैर्मनुष्येन च पराक्रान्तां विगृहीतां कपिईनूमान् ददाह दग्धवान् । अयुक्पादयमकमिति प्रथमतृतीययोर्यमितत्वात् ॥
पादाद्यन्त यमकम् -
८२१ - तं द्रुतं वह्नि- समागतं गतं महीमहीन - द्युति-रोचितं चितम् ॥ समं समन्तादप- गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ११ ॥
द्रुतमित्यादि - यत्पुरं चितं सौवर्णगृहसंहत्या व्याप्तं तद्वह्निसमागतं अग्निसंयुक्तं द्रुतं विलीनम् । द्रुतं प्रवाहेण प्रवृत्तं द्रुतं शीघ्रं अहीनया उत्कृष्टया द्युत्या तेजसा रोदितं भासितं महीं गतं प्राप्तं अपगोपुरं अपगतपुरद्वारं अत एव समन्तात्सर्वतः समं तुल्यं कृतम् । परैः शत्रुभिः परैरपि उत्कृष्टैरपि शक्रादिभि - रनिराकृतं अनभिभूतं सत् । पादाद्यन्तयमकमिति पादस्यादावन्ते च यमितत्वात् ॥
मिथुन-यमकम् - ८२२ - नश्यन्ति ददर्श वृन्दानि कपीन्द्रः ॥
हारण्य - बलानां हारीण्य - बलानाम् ॥ १२ ॥
नश्यन्तीत्यादि - अबलानां स्त्रीणां अबलानां अविद्यमानरक्षकाणां वृन्दानि समूहान् । हारीणि हारवन्ति, हारीणि भवश्यं हरन्ति । आवश्यके णिनिः । चेतस इत्यर्थात् । नश्यन्ति पलायमानानि सन्ति कपीन्द्रो ददर्श । मिथुनयमकमिति पादद्वयस्य चक्रवाकमिथुनवदवस्थितत्वात् ॥
वृन्त-यमकम् -
८२३ - नारीणामपनुनुदुर् न देह-खेदान्
ना ssरीणाऽमल - सलिला हिरण्यवाप्यः ॥
१–वंशस्थं वृत्तम् । ‘ज-तौ तु वंशस्थमुदीरितं ज-रौ' इति तलक्षणात् । २ – इदं तनु· मध्या वृत्तम् । तदुक्तम्—'तू यौ स्तम् तनुमध्या' इति । ३ - प्रहर्षिणी वृत्तम् । 'मू-नौ जूरौ गस् त्रिदश यतिः प्रहर्षिणीयम्' इति तलक्षणात् ।
भ० का० २३
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com