________________
२६४ भट्टिकाव्ये - तृतीये प्रसन्न - काण्डे लक्षण रूपे प्रथमो वर्गः,
पालनीया । समिद्धशरणादीप्ता लङ्का देहे दग्धा । अलं कामो ऽस्येत्यलंकामः । तद्भावः अलंकामता । तस्यामलंकामतायां पर्याप्तेच्छायां ईश्वरा लङ्का । सर्वेच्छासम्पादनात्। समुद्गयमकमिति समुद्गाकारेण यमितत्वात् पादद्वययोरर्धद्वययोश्च संपुटवत्सादृश्यात् ॥
काञ्ची-यमकम् -
८१८ - पिशि॑ता॒ऽशिनाम॑नु॒ -दिशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता, ॥ हलता जनेन बहुधा चरितं चरितं महत्त्व-रहितं महता ॥ ८ ॥
पिशिताशिनामित्यादि — पिशिताशिनां मांसाशिनां राक्षसानामनुदिशं दिशि दिशि । '६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः | ५|४|१०७ । ' इति टच् । स्फुटतां पलायमानानां परिविह्वलता स्फुटतां स्पष्टतां जगाम । अनेन चेतरेण हलता चलता महता शौर्यादिगुणयुक्तेनापि सता यच्चरितं चेष्टितं बहुधा बहुप्रकारं तन्महत्त्वरहितं महसा विकलमाचरितं अनुष्ठितं भयात् । काञ्चीयमकममिति रसनाकारेण यमितत्वात् । तथाद्यपादस्यान्ते परस्यादौ च सदृशो विन्यासः ॥
यमकाऽऽवली—
८१९-न गजा नग-जा दयिता दयिता, वि-गतं विगतं, ललितं ललितम्, ॥
प्रमदा प्रमदा SSम-हता, महतामरणं मरणं समयात् समयात्. ॥ ९ ॥
नेत्यादि - गजा हस्तिनः नगजाः पर्वतजाताः । अत एव दयिता इष्टा न दयिताः न रक्षिताः । दयतिरत्र रक्षणार्थः । विगतं वीनां पक्षिणां गतं गमनमपि चिगतं नष्टम् । ललितं यदीप्सितं वस्तु तल्ललितं पीडितम् । प्रमदा योषित् प्रमदा प्रगतो मदो यस्या इति प्रमदा । हर्षशून्येत्यर्थः । आमहता रोगपीडितेव । आमो रोगः । इवशब्दलोपोऽत्र द्रष्टव्यः । आमेन पीडिता पलायनहता वा । ' ४९८ । अम गत्यादिषु ।' महतां शूराणां भरणं अविद्यमानयुद्धं मरणं विनाशं समयात् संप्राप्तम् । यातेर्लङि रूपम् । समयात् कालेन यमकावलीति यमकमाला ॥
1
१ - एतद्वृत्तलक्षणं प्राक् ( एतत्सर्ग - २ लोके) उक्तम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com