________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६३
इतस्ततो गच्छता द्रवता द्रवभावः परितः न न कृता । किंतु कृतैव । काञ्चनसद्मचितेरित्यर्थात् । पादमध्ययमकमिति पादानां मध्ये यमितत्वात् ॥
1
चक्रवाल-यमकम्— ८१६ - अवसितं हसितं प्रसितं, मुदा विलसितं हसितं स्मर - भासितम् ॥
न स-मदाः प्रमदा हत - संमदाः, पुर- हितं विहितं न समीहितम् ॥ ६ ॥
अवसितमित्यादि - हसितं यत्प्रसितं संततप्रवृत्तम् । नित्यप्रमुदितत्वातत्रत्यजनस्य तदग्निसङ्गमादवसितं अपगतम् । '१२२२ । षो ऽन्तकर्मणि' इत्यस्य '३०७४ | द्यति स्यति - | ७|४|४०|' इतीत्वम् । मुदा हर्षेण यद्विलसितं शृङ्गारविचेष्टितं लसितं श्लिष्टमनुबद्धमिति यावत् । स्मरभासितं मन्मथदीपितम् । हूसितं अल्पीकृतम् । प्रमदाश्च स्त्रियः न समदाः सदर्पा न जाताः हतसंमदा ध्वस्तहर्षाः '३२४५॥ प्रमद-संमदौ हर्षे | ३|३|६८|' इति निपातनम् । यच्च पुरः हितं पुरानुकूलं समीहितं कर्तुरीप्सितं तन्त्र विहितं नानुष्ठितमित्यर्थः । चक्रवालयमकमिति मण्डलाकारेण यमितत्वात् । तथाहि । द्वयोर्द्वयोः पदयोरन्त्यव - र्णानां नेमिवदवस्थितत्वात् मध्यस्य वर्णस्य विसदृशस्य नाभिवदिति । तथाचास्य लक्षणम्- 'पदानामवसाने तु वाक्ये स्यात्तुल्यवर्णता । प्रतिपादं भवेद्यत्र चक्रवालं तदुच्यते ॥' इति ॥
समुद्र-यमकम् -
८१७ - समिद्ध - शरणा दीप्ता देहे लङ्का मतेश्वरा ॥ समिद्-ध-शरणाऽऽदीपू-ता देहेऽलं-काम-तेश्वरा ॥७॥
समिद्धेत्यादि - देहे अभ्यन्तरभागे समिद्धशरणा उज्वलगृहा तत एव दीप्ता शोभावती लङ्का पुरी मतेश्वरा ज्ञातमहादेवा | तन्त्रान्यदेवस्य नामापि न गृह्यते । समिधो दधति हतवन्तो वेति समिद्धा ऋषयः । पूर्वस्मात् '२९१५ आतो ऽनुपसर्गे कः | ३ |२| ३ |' इति कः । द्वितीयस्मात् '३०११। अन्येष्वपि दृश्य | ३ |२| १०१ |' इति ङः । अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात् धात्वन्तरादपि भवति । '११९ | झयो होऽन्यतरस्याम् ||४ | ६२ | ' इति पूर्वसवर्णः । तान् शृणन्ति हिंसन्तीति । '२८४१। कृत्यल्युटो बहुलम् | ३ | ३|११३ |' इति कतेरि ल्युट् । समिद्धशरणा राक्षसास्तान् दानमानाभ्यामादीपयति प्रोत्साहयतीति विपू । समिद्धशरणादीप् । रावणः तेन ताय्यते इति तायतेः कर्मणि कारके विवक्षिते संपदादिदर्शनात् क्विप् । '३७४ | वेरपृक्तस्य |६|१|६७ |' इति लोपात्पूर्वं '८७३ । लोपो व्योर्वलि | ६ |१| ६६ । ' इति लोपः । समिद्धशरणादीता रावणस्य
१ - एतद्वृत्तलक्षणं एतत्सर्गप्रथमश्लोके द्रष्टव्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com