________________
२६० भट्टिकाव्ये तृतीये प्रसन्न-काण्डे लक्षण-रूपे प्रथमो वर्गः, तत् ध्रुवमवश्यं त्वं न स्मरसि न चेतयसि । कुतः बाहुपीडितः सन् मूर्छावान् जातः । अत एव न सरसि येनैवमुक्तवानसि 'निजघानान्यसंसक्तम्' इति ॥ ८०९-अ-सद्-बन्धु-वधोपज्ञं विमुञ्च बलि-विग्रहम् , ॥
सीतामर्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः.१३६ असदित्यादि-यतो बलवन्यो ऽपि बलीयान् रामः तसाद लिना रामेण सह विग्रहं मुञ्च त्यज । कीदृशम् । बन्धुवधोपचं प्रथमतो ज्ञातिविनाशेन विदि. तमित्यर्थः । उपज्ञायत इत्युपज्ञा । २८९७। इगुपध-३।११३५।' इति कः । बन्धुवधस्योपज्ञेति सः । ८२४॥ उपज्ञोपक्रमम्-२४॥२१॥' इति नपुंसकलिङ्गता। तत्सामानाधिकरण्यादसदिति नपुंसकलिङ्गिता। नन्तव्ये प्रणामा । कोश. दण्डात्मभूमिभिः सह सीतामर्पय ॥ ८१०-स्फुट-परुषम-सह्यमित्यमुच्चैः
सदसि मरुत्-तनयेन भाष्यमाणः ॥ परिजनमभितो विलोक्य दाहं दश-बदनः प्रदिदेश वानरस्य. ॥ १३७ ॥ इति भट्टिकाव्ये नवमः सर्गः॥
इति प्रकीर्णकाः। स्फुटेत्यादि-इत्थं स्फुटपरुषं उक्तप्रकारेण स्फुटं स्पष्टं, परुषं रूक्षं अत एवासचं सोढुमशक्यम् । उच्चैर्महता ध्वनिना सदसि सभायां मरुत्तनयेन भाष्यमाणोऽमिहितः इत्थमित्यनेन वस्तुनः परिसमापितत्वात् । तेन वर्तमानसामी. प्य इति लट् । परिजनमभितः उभयपार्श्वे स्थितान् भृत्यान् विलोक्य वानरस दाहं प्रदिदेश आदिष्टवान् ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः), तथा लक्ष्यरूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः॥९॥
दशमः सर्गःशब्दलक्षणमुकमपि लक्षयन् काव्यलक्षणार्थ प्रसन्न-काण्डमुच्यते-काव्यखात्र प्रसन्नत्वात् । प्रथमं चेदं लक्षणं यत् प्रसन्नता नाम 'अविद्वदङ्गनाबालम तार्थ प्रसन्नव'दिति । शब्दलक्षणं पुनः प्रकीर्णमेव द्रष्टव्यम् । तत्रास्सिन"ड चत्वारः परिच्छेदाः । अलंकार-माधुर्यप्रदर्शन-दोषाः भाषासमावेशश्चेति बाल
१-अपरवमिदं वृत्तम् । तलक्षणं च...'अयुजि ननरला गुरुः समेजमारवक मिदं ततो जरौ' इति वृत्तरत्नाकरे भ० के० आह० Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com