________________
तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २५९
८०३ - अभिमान - फलं प्रोक्तं यत् त्वया राम-विग्रहे, ॥
विनेशुस् तेन शत-शः कुलान्यसुर- रक्षसाम् ॥१३०॥
अभीत्यादि --' मा भूद्रामविग्रहे खादिलाभः अभिमानफलं महत्त्वमस्ति ' इति यत्त्वया प्रोक्तं तेन निमित्तेन शतशो ऽनेकशः असुररक्षसां कुलानि विनेशुः विनष्टानि ॥
८०४ - यत् स्व-धर्म-धर्मं त्वं दुर्बलं प्रत्यपद्यथाः ॥
रिपौ रामे च निः शङ्को, नैतत् क्षेमंकरं चिरम् ॥१३१॥ यत्स्वेत्यादि - यदधर्मं परस्त्रीभोगहरणं दुर्बलं असारं अश्रेयसां आवाहकत्वात् । स्वधर्ममात्मीयमाचारं त्वं प्रत्यपद्यथाः प्रतिपन्नवानसि 'स्वधर्म एव नराशिनाम्' इति । लङि इयनि रूपम् । यच्च रिपौ रामे निःशङ्कः निर्भयः विहरसि 'का मे साशङ्कता त्वयि' इति । तदेतदुभयमपि न चिरं क्षेमंकरं कल्याणकरम् । '२९६१ । क्षेम - प्रिय-मद्रे ऽण्च | ३ |२| ४४ |' इति खच् ॥
·
८०५ - अन्वयाऽऽदि- विभिन्नानां यथा सख्यम॑नी॒ीप्सितम् ॥ नैषीर्, विरोधर्मप्येवं सार्धं पुरुष - वानरैः ॥ १३२ ॥ अन्वयेत्यादि - यथा नरादीनां अन्वयादिभिर्दूरविभिन्नत्वात् सख्यमनीप्सितं आघुनिष्टं, एवं पुरुषवानरैः सार्धं विग्रहमपि नैषीः नेष्टवानसि ॥ ८०६ - विराधं तपसां विघ्नं जघान विजितो यदि ॥
वरो धनुर्भृतां रामः, स कथं न विवक्षितः ? १३३ विराधमित्यादि - तपसां विघ्नं विराधम् । विहन्यते ऽस्मिन्निति 'जर्थे कविधानम्' इति कः । तादृक्छलेनापि हन्तुं न दोषायेति दर्शयति- धनुर्भूतां वरः श्रेष्ठः सन् विजितो ऽभिभूतोऽपि, रामो यदि जघान स कथं न विवक्षितः ? | यतो राममप्यसौ जितवान् ॥
८०७ - प्रणश्यन्नपि ना शक्नोत्येतुं बाण - गोचरम् ॥
त्वयैवतं महामायो मारीचो राम- हस्तिनः ॥१३४॥ प्रणश्यन्नित्यादि - मारीचः प्रणश्यन्नपि पलायनपरोऽपि सन् महामायः कनक मृगरूपधारित्वात् । रामहस्तिनः रामो हस्तीव तस्य बाणगोचरं बाणपदवीं अत्येतुं अतिक्रमितुं नाशक्नोत् न शक्तवानिति स्वयैवोक्तं, ममारेत्यभिदधता न । यदि शक्नोति अतिक्रमितुं न ममार ॥
८
८ - अन्याssसक्तस्य यद् वीर्यं न त्वं स्मरसि वालिनः ॥ मूर्च्छा-वान्नमतः संध्यां ध्रुवं तद् बाहु- पीडितः. १३५ अंग्रे-दि-संध्यां देवतां नमतः अन्यासक्तस्य वालिनो यद्वीय सामर्थ्य
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com