________________
२५८ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थो वर्गः, __ एक इत्यादि-एकेनापि विराधेन प्रथमं द्वावपि जितौ ताभ्यां पश्चाद्धतः । तत्रापि न प्रकाशं अपि तु छलेन । यतो ऽसौ मूढो ऽल्पबुद्धिः । तथाप्यविवक्षितः शौर्यान्न प्रतीतः। तेनापि हतेन तव विस्मयो जातः ॥ ७९८-मन्-नियोगाच् च मारीचः पलायन-परायणः ॥
युयुत्सा-रहितो रामं ममारा ऽपहरन् वने. ॥१२५ ॥ मन्नियोगादित्यादि-मारीचस्तु यतो राममपहरन् ममार । मन्नियोगा. दादेशात् । पलायनपरायणः अपसर्पणनिष्ठः सन् । पलायनपरायण इति परस्य नामरूपत्वादनुपसर्गत्वान्न लत्वम् । युयुत्सारहितः योद्धुमिच्छारहितः । मनियोगादिति १३७३। प्रत्ययोत्तरपदयोश्च ।७।२।१८।' इति अस्मदो मदादेशः ॥ ७९९-निजघाना ऽन्य-संसक्तं सत्यं रामो लता-मृगम् ॥
त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि. ॥१२६॥ निजघानेत्यादि-रामो लतामृगं वानरं वालिनं निजघानेति सत्यमेतत् । किंतु अन्यसंयुक्तं सुग्रीवेण सह युध्यमानं हतवान् । तच त्वमेव संचिन्त्य ब्रूहि युक्तं तन्महतां यदि ॥ ८००-पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः॥
क्षमिष्यते दशाऽऽस्येन, क-त्ययं तव दुर्-मतिः.' १२७ पुंसेत्यादि-आत्मानं रक्षितुं पुंसा भक्ष्येण भक्षणार्हण । सतां बन्धूनां खरदूषणादीनां वधो दशास्येन क्षमिष्यते सहिष्यते क्वत्येयं कभवेयं तव दुर्मतिदुष्टबुद्धिः । कशब्दातू १३२४। अव्ययात्त्य ।४।२।१०४।' 'अमेह क-त-सि-त्रेभ्यः' इति परिगणनात् ॥
इदानी कपिर्दशाननोक्तं दूषयन्नाह८०१-कपिर जगाद-'दूतो ऽहमुपायं तव दर्शने ॥
द्रुम-राक्षस-विध्वंसमकार्ष बुद्धि-पूर्वकम्. ॥ १२८ ॥ कपिरित्यादि-तव दर्शने अन्य उपायो नास्तीति बुद्धिपूर्वकं निरूप्य दुमभङ्गं राक्षसविनाशं च उपायमकार्ष कृतवानगीति कपिर्जगाद । अन्यथा दूतो. ऽहमागत इति मदावलिप्तः को मां गणयेत् ? । अतः सदृशमेव मया कृतमिति ॥ ८०२-आ-त्रिकूटमकार्षु ये त्वत्-का निर्-जङ्गमं जगत्, ॥
दशग्रीव ! कथं ब्रूषे ? तान-बध्याम् मही-पतेः ॥१२९॥ आत्रीत्यादि हे दशग्रीव ! ये त्वत्काः त्वद्वामणीकाः कबन्धादयः । १८७८॥ स एषां ग्रामणीः ।५।२।७८॥' इति कन् । आ त्रिकूटं त्रिकूटपर्वतममिव्याप्य जगत् निर्जङ्गमं निर्जन्तुकमकार्षुः । तान् महीपतेः रामस्य कथमवध्यान् ब्रूषे ? ।
अशिष्टनिग्रहो हि महीपतेधर्मः । जङ्गम इति गमेर्यङ्लुगन्तस्यापि रूपम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com