________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २५७
हतेत्यादि - हताः राक्षसयोधाः अक्षप्रभृतयो येन । विरुग्णा भग्नाः । '३०१९ । ओदितश्च | ८|२|४५ ॥ इति निष्ठानत्वम् । उद्यानशाखिनो येन । तस्यैवंविधस्य तव दूतोऽस्मीति ब्रुवाणस्य किं ? दूतसदृशम् | संदेशमात्रस्य प्रापका हि दूता इति भावः ॥
अभ्याहितजनप्रहे तापसे कस्मात्संरम्भ इत्याह
७९३ - पशु - बाल - स्त्रियो निघ्नन् कबन्ध खर- ताडकाः ॥
तपस्वी यदि काकुत्स्थः कीदृक् ? कथय पातकी. १२० पङ्गबालेत्यादि - पङ्गमङ्गविकलं कबन्धं, बालं खरं, स्त्रियं ताडकां निघ्नन् व्यापादयन् यदि तपस्वी काकुत्स्थः कीदृकू ? पातकीति कथय । '१०१८ । इदंकिमोरीश की | ६| ३ |९० ॥ ॥
,
यदुक्तं ' यं विनिर्जित्य स्त्रियो रत्नभूमयश्च न लभ्यन्ते' इत्याह७९४ - अभिमान - फलं जानन् महत्त्वं कथमुक्तवान् ॥
रत्नाऽऽदि-लाभ-शून्य-त्वान् निष्फलं राम-विग्रहम् १२१
अभीत्यादि - अभिमानः फलं यस्य महत्वस्य तज्जानन् रत्नादिलाभशून्यं रामविग्रहं कथं निष्फलमुक्तवानसि ? । विग्रहे सति अभिमानफलं महत्त्वं स्यात् ॥
'सीतां प्रत्यर्पयन् धर्ममामुहि' इत्येतदप्ययुक्तमित्याह - ७९५ - पर- स्त्री - भोग- हरणं धर्म एव नराशिनाम् ॥
"
मुखमस्तीत्य भाषिष्ठाः, का ? मेसाऽऽशङ्कता त्वयि १२२
परेत्यादि - परस्त्रीणां हरणं परेषां भोगहरणं च द्वयमपि नराशिनां धर्म एव आचार एव । अतो मुखमस्तीत्यभाषिष्ठाः अभिहितवानसीति सीतां प्रत्यर्पयन् धर्ममाहीति । लुङि रूपम् । भयात् प्रत्यर्पयसि चेदाह - का मे साशङ्कता त्वयीति त्रैलोक्य विजयित्वात् । त्वयीति हनूमद्व्यपदेशेन रामं सूचयति ॥ 'संगच्छ रामसुग्रीवौ ' इत्येतदपि न घटत इत्याह
७९६ - ब्रूहि दूर - विभिन्नानामृद्धि - शील- क्रिया॒ऽन्वयैः ॥
हनूमन् ! कीदृशं ? सख्यं नर- वानर- रक्षसाम् ॥ १२३॥ ब्रूहीत्यादि - ऋच्या विभूत्या, शीलेन स्वभावेन, क्रियया अनुष्ठानेन, अन्वयेन कुलेन दूरविभिन्नानां नरादीनां कीदृशं सख्यमिति ? । हे हनूमन् ! स्वमेव ब्रूहि ॥
'विराधादिभिर्ज्ञापितोऽसि यादृगरिः' इत्यत्रोत्तरमाह७९७ - एको द्वाभ्यां विराधस् तु जिताभ्याम-विवक्षितः ॥ हतशू छलेन मूढोऽयं, तेना ऽपि तव कः ? स्मयः १२४
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com