________________
तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं नाम दशमः सर्गः- २६१ कारो द्विविधः शब्दालंकारो ऽर्थालंकारश्चेति । तत्र पूर्वो द्विविधः। अनुप्रासो यमकं चेति उभयं दर्शयन्नाह
अनुप्रासवत्८११-अथ स वल्क-दुकूल-कुथाऽऽदिभिः
परिगतो ज्वलदुद्धत-वालधिः॥ उदपतद् दिवाकुल-लोचनैर्
नृ-रिपुभिः स-भयैरभिवीक्षितः. ॥१॥ अथेत्यादि-अथ दाहादेशानन्तरं स वानरो वियदाकाशमुदपतत् उत्पति. तवान् । वल्कं अंशुकम् । शुल्क-वल्को-ल्का इति निपातनम् । आदिशब्दादन्यैरपि मुनादिभिः परिगतः परिवेष्टितः । ज्वलनुद्धत ऊर्वीकृतो वालधिः पुच्छं यस्य सः नृरिपुभिः राक्षसैः । समयैराकुललोचनैरभिवीक्षितः किमयमनुष्ठास्यतीति । अनुप्रासवदिति अनुप्रासो यस्मिन् विद्यत इति । तस्य च लक्षणं'सरूपवर्णविन्यासमनुप्रासं प्रचक्षते' इति ॥
यमकस्यापि लक्षणम्-'तुल्यश्रुतीनां भिन्नानाभिधेयैः परस्परम् । वर्णानां यः पुनर्वादो यमकं तन्निरूप्यते ॥' इति तदनेकविधं दर्शयन्नाह
युक्पाद-यमकम्८१२-रण-पण्डितो ऽग्य-विबुधाऽरि-पुरे
कलहं स राम-महितः कृतवान् , ॥ ज्वलग्नि रावण-गृहं च बलात्
कलहंस-रामम-हितः कृतवान्. ॥२॥ रणेत्यादि-स कपिः वियदुत्पतितो राममहितो रामपूजितः । रणपण्डितो युद्धकुशलः । अग्यविबुधारिपुरे अग्यो यो विबुधः इन्द्रः तस्यः यो ऽरिर्दशानन· स्तस्य पुरे लङ्कायां कलहं कृतवान् । कलहंसान रमयतीति कलहंसरामम् । रमे. यन्ताकर्मण्यण् । तादृशं रावणगृहं बलाद्वार्यमाणोऽपि ज्वलदनि दीप्यमानपा. वकं । कृतवान् कृतं विद्यते यस्येति कृतापेक्षीत्यर्थः । भहितः शत्रुः । युपादयमकमिति युजोर्द्वितीयचतुर्थयोः पादयोर्यमितत्वात् ॥
पादाऽन्त-यमकम्८१३-निखिला ऽभवन् न स-हसा सहसा
ज्वलनेन पूः प्रभवता भवता॥
१-द्रुतविलम्बितं वृत्तमिदम्-द्रुतविलम्बितमाह नभौ भरौ' इति तलक्षणात् । २-इतः श्लोकद्वये प्रमिताक्षरा वृत्तम् । प्रमिताक्षरा सज-स-सैः' इत्युक्तत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com