________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २५५
रावणं प्रोचे वक्तुं प्रवृत्तः । वाक्यं वक्ष्यमाणं सानुनयं अनुकूलम् । किमर्थ स्वार्थस्य सिद्धये । स्वार्थश्च सीताप्रत्यर्पणम् ॥ ॥ इति णत्वाधिकारः ॥ इतः प्रभृति प्रकीर्णकश्लोकानाह
७८३ - ' दूतमेकं कपिं बद्धर्मानीतं वेश्म पश्यतः ॥
लोक-त्रय - पतेः क्रोधः कथं तृण - लघुस् तव ॥ ११०॥
दूतमित्यादि - दूतं संदेशस्य हारकं एकमद्वितीयं बद्धं भस्वतन्त्रीकृतं वेश्मानीतं पश्यत इति सर्वमेतन्न रोपकारणम् । अतो लोकत्रयपतेस्तवायं तृणवलघुरसारः कथं कोपः ॥
७८४ - अयाहित जन-प्रह्ने विजिगीषा - पराङ्मुखे. ॥
कस्माद् वा नीति-निष्णस्य संरम्भस् तव तापसे. १११
अग्नीत्यादि --- अग्न्याहितजनप्रह्ने आहिताग्नौ जने प्रवणे । वाहितायादिषु पूर्व निपातः । तस्मिन् विजिगीषापराङ्मुखे त्यक्तराज्यत्वात् तापसे रामे । '१९०९ ॥ तपः सहस्राभ्यां विनीनी | ५|२| १०२ ।' । '१९१० । अण् च | ५|२| १०३ । ' इत्यण् । नीतिनिष्णस्य तव । नीतौ पटुप्रज्ञस्य कस्माद्धेतोः संरम्भः रोषः ॥ ७८५ - न सर्व - रात्र - कल्याण्यः स्त्रियो वा रत्न- भूमयः ॥
यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्. ११२ नेत्यादि - यं विनिर्जित्य सर्वरात्रं कल्याण्यः स्त्रियो न लभ्यन्ते । सर्वाश्च ता रात्रयश्चेति '७२६ । पूर्वकाल - १२|१|४९ |' इति सः । '७८७। अहःसर्व - |५|४|८७ इत्यादिना अच् । सर्वरात्रं कल्याण्य इति सः । न रत्नभूमयः रत्नाकराः रतानि भूमयश्चेति सः कः तेन सह विग्रहं कुर्यात् सन्धिरेव युक्तः ॥
तदेव दर्शयन्नाह -
७८६ - संगच्छ राम- सुग्रीवौ भुवनस्य समृद्धये ॥
रत्न- पूर्णाविवाम्भोधी हिमवान् पूर्व - पश्चिमौ. ११३ संगच्छेत्यादि - यथा रत्नपूर्णावम्भोनिधी पूर्वपश्चिमौ भुवनस्य समृद्धये हिमवान् संगतवान् तथा त्वमपि रामसुग्रीवौ भुवनस्य समृद्धये संगच्छ संगतिं कुरु । सकर्मकत्वात् ' २६९९ । समो गमि - ||३|२९|' इति तङ् न भवति ॥ तच्च संततं परदारार्पणेनैवेति दर्शन्नाह—
७८७ - सुहृदौ राम- सुग्रीवौ, किंकराः कपि-यूथपाः, ॥
पर- दारा॒ऽर्पणेनैव लभ्यन्ते, मुञ्च मैथिलीम्. ॥११४॥ सुहृदावित्यादि - रामसुग्रीवौ सुहृदौ लभ्येते । '८८८ | सुहृदुदुर्हृदौ मिलामिलयोः | ५|४|१५० |' इति निपातनम् । तत्प्रीतिलाभात् किङ्करा लभ्यन्ते । किं
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com