________________
२५४ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे चतुर्थी वर्गः, ७७८-कः कृत्वा रावणाऽऽमर्ष - प्रकोपणम॑वद्य-धीः ॥
शको जगति शक्रोऽपि कर्तुर्मायुः प्रगोपणम् ॥१०५॥
कः कृत्वेत्यादि - भवद्यधीः योऽबुद्धिः रावणामर्षस्य प्रकोपणममिवृद्धिं कृत्वा आयुः प्रगोपणं कर्तुं शक्रोऽपि कः शक्तः । ' २८३७। हलश्वेजुपधात् |८|४|३१|' इति णत्वम् । कुपगुपयोर्हलन्तयोरिगुपधत्वात् ॥ ७७९-वना॒ऽन्त-प्रेङ्खणः पापः फलानां परिणिंसकः ॥
प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्य॑यम् ॥
वनेत्यादि - प्रेङ्खति गच्छतीति प्रपूर्वादिः कर्तरि ल्युट् । वनान्तस्य वनसमीपस्य प्रेङ्खणः । '२८३८| इजादेः सनुमः | ८|४|३२|' इति णत्वम् । फलानां परिणिंसकः भक्षयिता । '१०९६ । णिसि चुम्बने' इत्यस्य रूपम् । अस्मान् प्रणिन्द्य तिरस्कृत्य । भूयः पुनरप्ययं मधूनि नो ऽस्माकं प्रणिक्षिष्यति भोक्ष्यति । '७०७ । णिक्ष चुम्बने ' इत्यस्य रूपम् । '२८३९ | वा निंस- निक्ष- निन्दाम् ||८|३|३३।' इति णत्वम् ॥
७८० - हरेः प्रगमनं ना ऽस्ति, न प्रभानं हिम-द्रुहः, ॥
नाति -प्रवेपनं वायोर् मया गोपायिते वने ॥१०७॥
हरेरित्यादि - मया गोपायिते रक्षिते वने हरेरिन्द्रस्यापि चन्द्रस्य वा प्रगमनं संचारो नास्ति । हिमद्रुहः आदित्यस्य न प्रभानं न प्रकर्षेण दीप्तिः । वायोर्नातिप्रवेपनं मन्दगमनम् । तदनेन भग्नमित्यर्थात् । '२८३५ | कृत्यचः |८|४|२९|' इति प्राप्तस्य णत्वस्य '२८४० । न भा-भू-पू-कमि - गमि - १८ |४| ३४॥' इत्यादिना प्रतिषेधः ॥
७८१ - दुष्पानः पुनरैतेन कपिना भृङ्ग-संभृतः ॥
प्रनष्ट-विनयेना sग्र्यः स्वादुः पुष्पाssसवो वने. ' १०८
दुष्पान इत्यादि - पुनरेतेन प्रनष्टविनयेन कपिना पुष्पासवो दुष्पान: दुःखेन पास्यत इति '३३०९ | आतो युच् | ३ | ३|१२८|' । '३३१०। षात्पदान्तात् ८|४|३५|' इति णत्वस्य प्रतिषेधः । भृङ्गसंभृतो भ्रमरसंचितः । प्रनष्ट इति '२९१८ । नशेः षान्तस्य | ८ | ४ | ३६ | ' इति प्रतिषेधः । अग्र्यः श्रेष्ठः ॥ ७८२ - रोष - भीम- मुखेनैवं क्षुभ्नतक्ते, प्लवङ्गमः ॥
प्रोचे साऽऽनुनयं वाक्यं रावणं स्वाऽर्थ - सिद्धये . १०९ इति णत्वाऽधिकारः ।
रोषेत्यादि - रोष भीममुखेन इति '१०५७। पदव्यवाये ऽपि |८|४|३८|' इति णत्वप्रतिषेधः । भीममुख इत्यनेन निमित्तनिमित्तिनोर्व्यवधानात् । '७९२ । क्षुम्नादिषु च । ८|४ | ३९ | ' इति णत्वप्रतिषेधः । एवमुक्ते सति प्लवङ्गमः
Shree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com