________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५३ किंचित् । पूर्ववण्णत्वम् । प्रणिजानीहि अवगच्छ । सत्यपि दोषे न हन्यन्ते दूता इति । जानातेः शेषधातोरुपदेशावस्थायां अकखाद्यपान्तत्वात् । '२२३२। शेषे विभाषा-1८।४।१८॥ इत्यादिना णत्वम् ॥ ७७४-प्राणयन्तमरिं प्रोचे
राक्षसेन्द्रो विभीषणम् ॥ 'प्राणिणिषुर् न पापो ऽयं,
यो ऽभाक्षीत् प्रमदा-वनम् ॥ १०१॥ प्राणयन्तमित्यादि-रि कपि यः प्राणयति जीवयति तं प्राणयन्तं विभीषणम् । ११४३। श्वस प्राणने ।' ११४४। अन च' इत्यस्य रूपम् । '२४७८। अनितेः ।।४।१९।' इति णत्वम् । प्रोचे राक्षसेन्द्रः । न प्राणिणिषुः न जीवितुमिच्छुरयं पापः । २६०६। उभौ साभ्यासस्य ।।४।२॥' इति णत्वं द्वयोरपि । यो ऽभाङ्क्षीत् भगवान् प्रमदावनम् । हलन्तलक्षणा वृद्धिः ॥ ७७५-प्राघानिषत रक्षांसि येना ऽऽप्तानि वने मम, ॥
न प्रहणमः कथं पापं वद पूर्वाऽपकारिणम् ॥१०२॥ प्राधानिषतेत्यादि-मम आप्तानि अक्षप्रभृतीनि येन वने प्राघानिषत मारितानि । कर्मणि लुङ्। चिण्वदिट । '३५८। हो हन्तेः-७।३१५४।' इति घत्वम् । तपरपरिच्छिन्नाकारपूर्वस्य नकारस्य- 'हन्तेरत्पूर्वस्य' इति णत्वं न भवति । तं पूर्वापकारिणं पापं कथं न प्रहण्मः मारयाम इति वद कथय । '२४२९॥ वमो ।८।।२३॥' इति णत्वम् ॥ ७७६-वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः॥
मा कार्पोरेऽन्तरयणं, प्रयाणाऽर्हमवेद्यमुम्. ॥१०३॥ वेश्मेत्यादि-शत्रोर्वेश्मान्तः गृहमध्य एव हननं कोपान्मम करिष्यतः । '३२९४। अन्तरदेशे ॥२४॥' इति दकारस्य णत्वम् । हननस्याभावरूपस्यादेशत्वात् । अन्तरयणमन्तरायणं विघातं मा कार्षीः। ३२९५। अयनं च ।।४।२५।' इति णत्वम् । प्रयाणाहै दीर्घप्रस्थानाहममुमवेहि अवगच्छ । '२८३५। कृत्यचः 11४२९।' इति णत्वम् । अच उत्तरस्य नकारस्य कृत्स्थत्वात् ॥ ७७७-प्रहीण-जीवितं कुर्युर् ये न शत्रुमुपस्थितम् ॥
न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहापणम् १०४ प्रहीणेत्यादि-शत्रुमुपस्थितं प्रहीणजीवितं ये न कुर्युः । जहातेः '३०१९। ओदितश्च ।।२।४५।' इति निष्ठादेशनकारस्य पूर्ववण्णत्वम् । ते न्याय्याया अपि कुलक्रमादागताया अपि लक्ष्म्याः प्रहापणं त्याजनं आशु कुर्वन्ति । २०३६॥णेर्विभाषा ॥३०॥' इति गत्वम् ॥
भ. का० २२ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com