________________
२५२ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थो वर्गः, १०५२॥ वाहनमाहितात् । ' इति णत्वम् । रोषस्य तत्राधीयमानत्वात् । पति रुधिरपायिणां राक्षसानाम् । १०५३। पानं देशे ।।।९।' इति गरवम् ॥ ७६९-सुरा-पाण-परिक्षीबं रिपु-दप-हरोदयम् ॥
पर-स्त्री-वाहिनं प्रापुः साऽऽविष्कारं सुरा-पिणः. ९६ सुरेत्यादि-सुरापाणात्परिक्षीबं मत्तं रावणम् । '१०५४। वा भाव करणयोः ।।४।१०।' इति णत्वम् । रिपुदर्पहर उदयो वृद्धिर्यस्य तम् । परस्त्रियं वाहयितुमुपभोक्तुं शीलं यस्य तं परस्त्रीवाहिनम् । '१०५५। प्रातिपदिकान्त-16. ११॥ इति णत्वाभावः पाक्षिकः । प्रापुः सुष्टु निकटीकृताः । साविष्काराः साहं. काराः । सुरापिणः सुरा पैर्युक्ताः । सुरांपिबन्तीति २९२२॥ गापोष्टक् ।३।२।।' ते येषां सन्तीति मत्वर्थीयः । ३०७। एकाजुत्तरपदे णः ।।४।१२।' इति णत्वम् । उत्तरस प्रातिपदिकान्तस्यैकाच्वात् ॥ ७७०-संघर्ष-योगिणः पादौ प्रणेमुस् त्रिदश-द्विषः॥
प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्-मतीः ॥९॥ समित्यादि-संघर्षयोगिणः स्पर्धायोगिनः । १०५६। कुमति च ।।४।१३॥' इति णत्वम् । ते अन्योन्याभिभवेच्छया त्रिदशद्विषो रावणस्य पादौ प्रणेमुः। '२२८७। उपसर्गादसमासे ऽपि-1८।४।१४।' इति णत्वम् । हनूमन्तं प्रहिण्वन्तः ढोकयन्तः । द्विषन्मतीः शत्रुबुद्धीः प्रमीणन्तं अभिभवन्तम् । '१५७१। मीन हिंसायाम् ।' ऊयादिकः । '२५३०॥ हिनु मीना ।८४।१५।' इति णत्वम् ॥ ७७१-'प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः॥'
आमन्त्रयत संक्रुद्धः समिति रक्षसां पतिः. ॥ ९८ ॥ प्रवपाणीत्यादि-अस्स वानरस्य वनच्छिदः शिरो भूमौ प्रवपाणि छित्त्वा पातयामि । '२२३॥ आनि लोद ।।४।१६' इति णत्वम् । वपिरत्र पातने वर्तते । संक्रुद्धः रक्षसां पतिः स्वामी समिति समूहं आमन्त्रयत भाषितवान् ॥ ७७२-प्रण्यगादीत् प्रणिनन्तं घनः प्रणिनदन्निव ॥
ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्र विभीषणः ॥१९॥ प्रण्यगादीदित्यादि-जत उत्तरकालं विभीषणो राक्षसेन्द्रं प्रणिनन्तं हन्तुमारभमाणं प्रण्यगादीत् वक्तुं प्रवृत्तः । घन इव प्रणिनदन् गर्जन् । स्वार्थे । राक्षसेन्द्रस्य प्रणिहितो ऽवहितमनाः । सर्वत्र '२२८५। नेर्गद-1८1॥१७॥' इति णत्वम् ॥ ७७३-'प्रणिशाम्य दश-ग्रीव!, प्रणियातुमलं रुपम् ॥
प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि.॥१००॥ प्रणिशाम्येत्यादि-हे दशग्रीव ! प्रणिशाम्य रोषं त्यज । लोटि श्यनि रूपम् । '२५१९। शमामष्टानाम्-७।३।७४।' इति दीर्घः । रुषं प्रणियातुमलं न Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com