________________
तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमों' नाम नवमः सर्गः- २५१ ज्योः परस्य लिटि षत्वप्रतिषेधः । पूर्वस्य तु २२७१। 'सदिरपतेः ३६६ इति भवत्येव । विषहत इति न प्रतिषेधः । तत्र सोदरूपस्य ग्रहणात् ॥ ॥ इति मूर्धन्याधिकारः ॥
इतःप्रभृति णत्वमधिकृत्याह७६५-मुष्णन्तमिव तेजांसि विस्तीर्णोरस्-स्थलं पुरः ।
उपसेदुर् दश-ग्रीवं गृहीत्वा राक्षसाः कपिम्. ॥९२॥ मुष्णन्तमित्यादि-राक्षसाः पुरः कपिमादाय दशग्रीवमासेदुः दौकितवन्तः । नतु दर्शनगोचरं गताः । अप्रभातत्वात् । कीदृशम् । तेजांसि मुष्णन्तं खण्डयन्तमिव विस्तीर्णोरःस्थलं विस्तृतवक्षसम् । तत्र '२३५ । स्वाभ्यां नो णः -1611' इति णत्वम् ॥ ७६६-बहुधा भिन्न-मर्माणो भीमाः खरणसाऽऽदयः॥
अग्रे-वणं वर्तमाने प्रतीच्यां चन्द्र-मण्डले ॥ ९३ ॥ बहुधेत्यादि-वानरद्विषो राक्षसा ऊचुरिति वक्ष्यमाणेन संबन्धः । कीदृशाः किमूचुरित्याह-बहुधा भिन्नमर्माण इति । यानि कालान्तरे प्राणहराणि मर्माणि तानि बहुधा भिन्नानि येषामिति बहुव्रीहिः । अपवर्गसमुदायस्थ व्यवधानात् '१९७। अट्-कुप्वाइ-18' इत्यादिना णत्वम् । खरणसादयः खरस्येव नासिका यस्येति । '४५६। अञ् नासिकायाः-1५।४।११।' इत्यञ् नसादेशश्च । '८५७। पूर्वपदात्संज्ञायम्-1५।४।११।' इति णस्वम् । खरणसादयो राक्षसाः वनस्याग्रे अग्रेवणम् । राजदन्तादित्वात्परनिपातः । १०३९। वनं-पुरगा-11।' इति णत्वम् । प्रतीच्यां दिशि यद्वनं तस्य वनस्याने उपरि वर्तमाने चन्द्रमण्डले प्रभातसंध्यायामित्यर्थः ॥ ७६७-'निर्वणं कृतमुद्यानमनेना ऽऽम्रवणाऽऽदिभिः॥
देवदारु-वामित्रै' रित्यूचुर् वानर-द्विषः ॥ ९४ ॥ निर्वणमित्यादि-उद्यानं संनिवेशविशेषः निर्वणं वृक्षरहितं अनेन कपिना कृतम् । आम्रवणादिभिरुपलक्षितम् । उभयत्रापि '१०५०। प्रनिरन्तः-1८।४।५।' इति णत्वम् । देवदारुवनामित्रैः १०५१। विभाषौषधि-1८।४।६।' इत्यादिना णत्वं न भवति । 'यक्षर-घ्यक्षरेभ्य इति वक्तव्यम्' इति वचनात् । इत्येवमूचुः॥ ७६८-उपास्थिषत संप्रीताः पूर्वाहे रोष-वाहणम् ॥
राक्षसाः कपिमादाय पति रुधिर-पायिणाम् ॥९५॥ उपेत्यादि ते राक्षसाः पतिमुपास्थिषत उपागताः। दृष्टिपथं गता इत्यर्थः । 'उपाद्देवपूजा-' इत्यादिना संगतिकरणे तङ् । '२३८९। स्था-बोरिच ।।२।१७।' संप्रीताः सा तेषामनुज्ञातप्रवेशस्वात् । पूर्वाह्ने प्रत्यूषसि । '७९१॥ अहो. ऽदन्तात् ।।७।' इति णस्वम् । रोषवाहणं कपिमादाय । रोषस्यासनीकृतम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com