________________
२५० भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
विलोचनेत्यादि-विलोचनाम्बु अश्रु मुञ्चन्ती विक्षिपन्तीम् । हृदयस्य शोकाग्निसंतप्तस्य परिसेसिचाम् भृशं निर्वाणमिव कुर्वाणामैक्षतेति पूर्वेण संबन्धः। सिचेयङन्तात् स्त्रीलिङ्गे भावे अकारप्रत्ययः। '२२७०। उपसर्गात् ।।३।६५।' इत्यादिना अभ्यासन्यवाये ऽपि प्राप्तस्य षत्वस्य २६४०। सिचो यङि ।८।३।११२॥ इति प्रतिषेधः । उत्तमव्रतां पतिव्रतां पतिव्रतात्वात् ॥ ७६१-दृष्ट्वा तामभनग वृक्षान् द्विषो घ्नन् परिसेधतः॥
परितस् तान् विचिक्षेप क्रुद्धः स्वयमिवा ऽनिलः ८८ दृष्ट्रेत्यादि-तां दृष्ट्वा वृक्षानभनक् चूर्णितवान् । द्विषः शत्रून परिसेधतः आगच्छतः नन् हिंसन् । पूर्ववत्प्राप्तस्य २२७८। सेधतेर्गतौ ।।३।११३।' इति प्रतिषेधः। परितश्च समन्तादुद्विचिक्षेप उन्मूलितवान् । लिटः संयोगादित्वाद. कित्त्वे गुणः । क्रुद्धः स्वयमिव साक्षादिवानिलः ॥ ७६२-अ-प्रतिस्तब्ध-विक्रान्तम-निस्तब्धो महाऽऽहवे, ॥
विसोढवन्तमस्त्राणि व्यतस्तम्भद् घन-ध्वनिः ॥८९॥ अप्रतीत्यादि-धनध्वनिमेघनादः भनिस्तब्धो ऽनभिभूतः अप्रतिस्तब्धवि. क्रान्तं अनभिभूतविक्रमं कपिम् । '२२७२। स्तन्भेः ।।१३।६७।' इति प्राप्तस्य षत्वस्य ३०२७। प्रतिस्तब्ध-निस्तब्धौ च ।।३।११४॥' इति प्रतिषेधनिपातनम् । अस्त्राणि महाहवे विसोढवन्तं '२३५८। सोढः ।।३।११५।' इति प्रतिषेधः। व्यतस्तम्भत् निष्पादितवान् । एवं नयन्तो ऽवदनिति योज्यम् । स्तम्मेय॑न्तस्य '२५८०। स्तम्भु-सिवु-सहां चङि ।।३।११६।' इति षत्वप्रतिषेधः ॥ ७६३-ते विज्ञाया ऽभिसोष्यन्तं रक्तै रक्षांसि स-व्यथाः॥
अन्यैरप्यायतं नेहुर् वरत्रा-शृङ्खलाऽऽदिभिः ॥९॥ त इत्यादि-ते राक्षसाः ये मारुति नेष्यन्तः । रक्तैः रक्षांसि विसोध्यन्तं अमिषेक्ष्यन्तं कपिम् । '२५२४। सुनोतेः स्व-सनोः ।।३।११७॥' इति [न] षत्वम् । यद्याकृष्यमाणो न नीयेत अवश्यं राक्षसान् रक्तैः सोप्यतीति विज्ञाय सव्यथाः सभयाः सन्तः । अन्यैरपि वरनाशृङ्खलादिमिरायतं दीर्घ नेहुः बनन्ति स । १२४॥ गह बन्धने' इत्यस्य लिटि रूपम् ॥ ७६४-विषसादैन्द्रजिद् बुद्धा बन्धे बन्धाऽन्तरक्रियाम् ॥ दिव्य-बन्धो विषहते ना ऽपरं बन्धनं यतः॥९१॥
इति षत्वाधिकारः। विषसादेत्यादि-बन्धे दिव्ये बन्धान्तरक्रियां बन्धनविशेषकरणं बुद्धा इन्द्रजित् विषसाद विषादमुपगतः। नियतं दिव्यबन्धं मुक्तवानिति । यतो दिव्यबन्धो नापरं स्वयं बन्धनं विषहते । अतो विषसादेति योज्यम् । सदिसि.
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com